________________
भाष्यम् उ० २१०१४-१५ _ साधिकरणादिभिषणां वैयावृत्त्यावधिः ५९
सूत्रम्-साहिगरणं भिक्खू गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स, निज्जूहित्तए, अगिलाए तस्स करणिज्ज वेयावडियं जाव तओ रोगायंकाओ विप्पमुक्के तो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया ।। सू० १४ ॥
छाया-साधिकरण भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य नि!हितुम् , अग्लान्या तस्य करणीयं वैयावृत्त्यं यावत् स तस्मात् रोगातङ्कद् विप्रमुको भवेत् , तत. पश्चात् तस्य यथालघुस्वको नाम व्यवहार प्रस्थापयितव्यः स्यात् ॥ सू० १४ ॥
भाष्यम् –'साहिगरणं' साधिकरणम् , अधिकरणं - कलहः, क्रोधमानमायालोभद्वेषादि. जनितः, तेन सह विद्यते इति साधिकरणः कलहजन्यक्रोधयुक्तस्तं साधिकरणं 'भिक्खं भिक्षु 'गिलायमाणं' ग्लायन्तं कलहजनितज्वरादिभिग्लानिमुपगतम् 'नो कप्पइ' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जूहित्तए' निर्दुहितुं निराकर्तुम् । शेषं पूर्ववत् ।। सू० १४ ॥
सूत्रम्-सपायच्छितं भिक्षु गिलायमाणं नो कप्पई तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए तस्स करणिज्जं वेयावड़ियं जाव तओ रोगायंकाओ विप्पमुक्के, तो पच्छा तस्स अहालहुस्सगे नाम ववतारे पट्टवियव्ये सिया ॥ सू० १५॥
छाया-सप्रायश्चितं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य नियुहितुम् , अग्लान्या तस्य करणीय वैयावृत्त्यं यावत् रोगातकाद् विप्रमुक्तः, तत पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ।। सू० १५ ॥
भाष्यम्-'सपायच्छित सप्रायश्चित्तं, तत्र प्रायश्चित्तं परिहारकादितपोविशेषः, तेन प्रायश्चित्तेन सहितो युक्त इति सप्रायश्चित्त., तं सप्रायश्चित्तम् 'भिक्खु भिक्षु 'गिलायमाणं' ग्लायन्तं प्रायश्चित्तबाहुल्याद्भयभीतत्वेन संजातज्वरादिकम् 'नो कप्पई नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य ग गावच्छेदकस्य 'निज्जूदित्तए' निहितुं निराकर्तुम्, शेषं व्याख्यातपूर्वम् ॥ सु. १५॥
सूत्रम्-भत्तपाणपडियाइक्खियं भिक्खु गिलायमाणं नो कप्पद तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए तस्स करणिज्ज वेयावडियं जाव तओ रोगायंकाओ विप्पमुक्के, तो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया ॥सू०१६॥
छाया -भक्तपानप्रत्याख्यातं भिक्षु ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य नियंहितम् , अग्लान्या तस्य करणीय वैयावृत्त्यम् यावत् ततो रोगातकाद् विप्रमुक्त, तत पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू०१६ ।।