________________
व्यवहारसुत्रे
"
भाष्यम् – 'जक्खाइहं' यक्षाविष्टम्, यक्षो नाम व्यन्तरदेव विशेषः तेन पूर्वभवादिवैरमाश्रितेन रागरञ्जितेन वा आविष्टः यक्षाविष्टस्तं तागं भिक्खु' भिक्षु 'गिलायमाणं' ग्लायन्तं ग्लानिमुपगच्छन्तम्, यक्षावेशेनैव ग्लानभावमुपगतं सन्तम् 'नो कप्पड़' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य निज्जूद्दित्तए' निर्यूहितुं निराकर्तुम् इत्यादि सर्व पूर्ववदेव व्याख्यातव्यम् ॥ सू० ११ ॥
५८
,
सूत्रम् - उम्मायपत्तं भिक्खु गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निज्जूत्तिए, अगिलाए तस्स करणिज्जं वेयावडियं जाव तओ रोगायंकाओ विप्पक्को, तओ पच्छा अहालहुस्सगे नामं ववहारे पढवियन्वे सिया ॥ सू० १२ ॥
छाया - उन्माद प्राप्तं भिक्षं ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निर्यूहितुम् अग्लान्या तस्य करणीय वैयावृत्त्यं यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सु० १२ ॥
भाष्यम् – 'उम्मायपत्ते' उन्मादप्राप्तम्, मोहनीयकर्मोदयेन वातपित्ताद्युद्रेकेण वा उन्मादं प्राप्त. य' कश्चिद् तं तादृशमुन्मादप्राप्तं ' भिक्खु' भिक्षु' 'गिलायमाणं' ग्लायन्तं तद्वशाज्ज्वरादिरोगाक्रान्तं 'नो कप्पइ' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जू हित्तए' निर्यूहितुं निराकर्तुम्, इत्यादि सर्व पूर्ववदेव व्याख्यातव्यम् ॥ सू० १२ ॥
सूत्रम् – उवसग्गपत्तं भिक्खुं गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए तरस करणिज्जं वेयावडियं जाव तओ रोगायंकाओ विष्पमुक्को, तओ पच्छा तस्स अहालहुस्सगे नामं ववहारे पट्टवियन्वे सिया || सू० १३ ॥
छाया - उपसर्गप्राप्तं भिक्षु ग्लायन्तं नो कल्पते गणावच्छेदकस्य निहितुम् अग्लान्या तस्य करणीयं वैयावृत्त्यम् यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्य स्यात् ॥ सू० १३ ॥
भाष्यम् – 'उवसग्गपत्त' उपसर्गप्राप्तम्, तत्रोपसर्गो देवमनुष्यतिर्यक् समुद्भूतः, यथा देवः पूर्वभववैरमासाद्य बीभत्स रूपदर्शनादिना उपसर्गं करोति, मनुष्यो वा द्वेषेण ईर्ष्यया वा उपसर्गं करोति, तिर्यक्-सिंहव्याघ्रादिर्वा उपसर्ग करोति तादृशं त्रिविधोपसर्गप्राप्तम् ' भिक्खु ' भिक्षु श्रमण 'गिलायमाणं' ग्लायन्तं ज्वरादिरोगेण दैन्यमुपगच्छन्तम् 'नो कप्पइ' नो कल्पते 'वरूप गणावच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जू हित्तए' निर्यूहितुं निराकर्तुम् । शेषं पूर्ववदेव ॥ सू० १३ ॥