________________
व्यवहारसूत्रे नायामयोग्यः अनाचीर्णतपोविशेषत्वेन पुनर्महाव्रतेषु स्थापितुमनर्ह इत्यर्थः, स च त्रिविधो भवति, उक्तञ्च वहत्कल्पसूत्रे
"तओ अणवट्टप्पा पण्णत्ता तं ज़हा--साहम्मियाणं तेणं करेमाणे १, अण्णधम्मि“याणं तेण्णं करेमाणे २, हत्थादाणं दलमाणे" ३ इति ।
त्रयः सनवस्थाप्याः प्रज्ञप्ताः, तद्यथा-साधर्मिकाणां -स्तैन्यं कुर्वाणः १, -अन्यधार्मिकाणां स्तैन्यं कुर्वाणः २, हस्तातालं ददानः । इतिच्छाया । अस्य व्याख्या तत्रैव (बृहत्कल्पसूत्रे) तत्र द्रष्टव्या।
तं तादृशं नवम-प्रायश्चित्तस्थानं प्रतिपन्नं 'भिक्खं' भिक्षु 'गिलायमाणं' ग्लायन्तं रोगातकादिना कदर्थितशरीरम् 'नो कप्पई' नो कल्पते 'तस्स गणाच्छेयगस्स' तस्य गणावच्छेदकस्य 'निज्जूहित्तए' निहितुं निराकर्तुम् । शेष सर्व परिहारकल्पस्थितसूत्रवदेव व्याख्येयम् ॥ सू० ७॥
सूत्रम् --पारंचियं भिक्खु गिलायमाणं नो कप्पइ तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिलाए . तस्स करणिज्जं वेयावडियं जाव तओ रोगातंकाओ विप्पमुक्के तो पच्छा तस्स अहा लहुस्सगे नामं ववहारे पठवियत्वे सिया ॥ सू० ८ ॥
छाया-पाराञ्चितं भिक्षु रलायन्तं नो-कल्पते तस्य गणावच्छेदकस्य निर्वृहितम् अग्लान्या तस्य करणीयं वैयावृत्त्यं यावत् ततो रोगातङ्काद् विप्रमुक्तः, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारःप्रस्थापयितव्यः स्यात् ॥ सू० ८॥
भाष्यम्--'पारंचियं' इति । 'पारंचियं' पाराश्चितं, पाराश्चितं नाम दशमप्रायश्चित्तं तद्योगात् साधुरपि पाराश्चितः पाराञ्चिको वा, तत्र पारं तोरं तपःप्रतिसेवनेनापराधस्य मिश्नति गच्छति ततो दीक्षते यः स पाराश्चिः स एव पाराश्चितः पाराश्चिको वा, यद्वा पारम् , अन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां पारमञ्चति गच्छत्तीत्येवंशीलं पाराञ्चितं, तद्योगात् साधुरपि पाराञ्चितः । उक्तञ्च व्यवहारसूत्रे--
'तओ पारंचिया पण्णत्ता तंजहा-दुढे-पारंचिए १, पमत्ते पारंचिए २, अन्नमन्नं करेमाणे पारंचिए ३' इति ।
त्रयः पाराञ्चिताः प्रज्ञाः, तद्यथा-दुष्टः पाराञ्चितः १, प्रमत्तः पाराञ्चितः २, अन्योन्यं कुर्वाणः पाराञ्चितः ३ । इतिच्छाया ।
व्याख्या तत्रैव द्रष्टव्येति । तं तादृशं पाराञ्चितं दशमप्रायश्चित्तस्थानमापन्नम् । 'भिक्खु' भिक्षु 'गिलायमाणं' ग्लायन्तं रोगातकादिना ग्लानिमुपगच्छन्तम् 'नो कप्पई' नो कल्पते 'तस्सगणावच्छे यगस्स निज्जूहित्तए' तस्य गणावच्छेदकस्य निहितम् । इत्यादि सर्व पूर्ववद् व्याख्येयम् ।। सू० ८॥