________________
भाष्यम् उ० २ ० ६-८
ग्लानाऽनवस्थाप्यपाराञ्चिकभिक्षोस्तपोवाहनविधिः ५५
निर्जरणनिमित्तं 'तस्स करणिज्ज वेयावडियं' तस्य रोगादिना ग्लानिमुपगतस्य साघोवर्यैावृत्त्यं करणीयं गणावच्छेदकेन । कियत्कालपर्यन्त वैयावृत्त्य करणीयम् ? तत्राह - ' जाव' इत्यादि, 'जाव तओ रोगायंकाओ विप्पमुक्को' यावता कालेन तस्मात् शरीरसंस्थितात् रोगातङ्कात् विप्रमुक्तो विनिर्मुक्तो भवेत् यावत्तस्य रोगातको नोपशाम्यति तावदित्यर्थः 'तओ पच्छा' ततः पश्चात् रोगविमुक्त्यनन्तरम् ‘तस्स' तस्य पारिहारिकस्य वैयावृत्त्यकारकस्य च ' अहालहुस्सए नामं ववहारे' यथालघुस्वक; स्तोको नाम व्यवहारः प्रायश्चित्तं यथालघुस्वक इति स्तोकोऽल्पः, व्यवहारः प्रायश्चित्तम् । उक्तञ्च
"वत्रहारो आलोयण, सोही पायच्छित्त होंति एगट्ठा । थोवो अहालहुस्सो, पडवणा होई तदाणं" ॥१॥
व्यवहारः अलोचना शोधिः प्रायश्चित्तं भवन्ति एकार्थाः । स्तोको यथालघुस्वकः प्रस्थापना भवति तद्दानं ( प्रायश्चित्तदानम्) |
1
'पट्टवियन्वे सिया' प्रस्थापयितव्यो दातव्यः स्यात्, रोगविमुक्त्यनंतरं तस्मै पारिहारिकाय यथालघुस्वकं स्तोकं प्रायश्चित्तं दातव्यं भवेदिति भावः । अत्र यथा लघुस्वकनामकं यत् प्रायश्चितं दातव्यत्वेन कथितं तत् पारिहारिकस्य रोगातङ्कावस्थायां यदतिचारजातमापन्नं भवेत्तद्विपयकम्, वैयावृत्यकारकस्य तु तन्निमित्तमाहासन यनादिविषये यदापन्नं तद् वेदतव्यम् एवमग्रेऽपि सर्वत्र वाच्यम् । अयं यथालघुस्वको व्यवहारः पञ्चदिवसात्मको भवति, तं च सद्योरोगमुक्तत्वेन निर्विकृतिकं कुर्वन् पूरयतीति । उक्तञ्च "निव्विगियं दायन्त्रं, अहालहुस्संमि सुद्धो वा" इति निर्विकृतिक दातव्यं यथालधुस्वके शुद्धो वा ( क्रियते ) इति च्छाया । अथवा यस्मिन् श्रमणे यथालघुस्वको व्यवहारः प्रस्थापयितव्यो भवेत् तदा यदि यः प्रवचनप्रभावनादिमहति कारणे समुपस्थिते मनसि पापभयं निधाय प्रतिसेवनमकरोत् तदा स आलोचनाप्रदानमात्रत एव शुद्धः क्रियते तच्चाचार्याद्यधीनमिति विवेकः ॥ सू० ६ ॥
सूत्रम् -- अणवट्टप्पं भिक्खुं गिलायमाणं नो कप्पर तस्स गणावच्छेयगस्स निज्जूहित्तए, अगिनाए तस्स करणिज्जं वेयावडियं जाव तओ रोगायंकाओ विप्पमुक्को तओ पच्छा तस्स अहालहुस्सए नामं ववहारे पट्टवियन्वे सिया || सू० ७ ॥
छाया -- अनवस्थाप्यं भिक्षु' ग्लायन्तं नो कल्पते तस्य गणावच्छेदकस्य निर्यूहितुम् अग्लान्या तस्य करणीयं वैयावृत्त्यं यावत् ततो रोगातङ्काद् विप्रमुक्तः ततः पश्चात् यथा लघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० ७ ॥
भाष्यम् – 'अणवट्ठप्पं' इति । 'अणनट्टप्पं' अनवस्थाप्यम् - अवस्थापयितुमयोग्यं चौर्यादि - रूपं नवमं प्रायश्चित्तम् तद्विषयकतपोऽनाचरणेन तद् योगात् साधुरपि अनवस्थाप्यः पुनरुत्थाप