________________
व्यवहारसूत्र करणीयम् । 'से य संते वले' स चाऽधिकृत. पारिहारिकः सति बले धृतिसंहननादिसामर्थ्य विद्यमानेऽपि निगूहितबलवीर्यः सन् 'अणुपारिहारिएणं कीरमाणं वेयावडियं अनुपारिहारिकेण क्रियमाणं वैयावृत्त्यं स्वकीयपरिचर्यारूपम् 'साइज्जेज्जा' स्वादयेत् अनुमोदयेत् 'सम्यक् कृतं भवता यत् ग्लानस्य मे एतादृशं वैयावृत्त्यं कृतम्' इत्येवंरूपेणाऽनुमोदनं कुर्यात् । बलसद्भावे वैयावृत्त्यस्याऽनुमोदनेन प्रायश्चित्तमापद्यतेऽतः 'से य कसिणे तत्थेव आरुहियन्वे सिया'तदपि अनुमोदनादिजनितं प्रायश्चितं कृत्स्नं सर्व तत्रैव वहमाने परिहारतपस्येवाऽनुग्रहकृत्स्नेनाऽऽरोपयितव्यं स्यात् अन्यतराऽकृन्यप्रतिसेवनजनितपापस्यापि निवृत्त्यर्थं यदपरं प्रायश्चित्तं प्राप्त तस्यापि समावेशस्तस्मिन्नेव परिहारतपसि कर्त्तव्यः, नतु प्रायश्चित्तान्तरं दातव्यमिति भावः । ___पारिहारकस्य वैयावृत्त्यप्रकारो यथा-यदि पारिहारको भाण्डं प्रत्युपेक्षितुं न शक्नोति तदाऽनुपारिहारिको भाण्डं प्रत्युपेक्षते, भिक्षार्थ हिण्डितुं न शक्नोति तदा भिक्षामानीय ददाति । एवमुत्थितुं न शक्नोति तदा तमुत्थापयति , एवमुपवेष्टुमशक्तमुपवेशयति, लेपादिखरण्डितं पात्रबन्धादि प्रक्षालयितुं न शक्नोति तदा तत् प्रक्षालयति । एवं पारिहारको यद् यत् कार्य कत्तुं न शक्नोति तत्तत्सर्वं तस्यानुपारिहारिकः करोति । एवंविधं यथायोग्यं परिचर्याकरणरूपं वैयावृत्त्यमनुपारिहारिकेण करणीयं भवेत् । तच्च तावत् करणीयं यावत् परिहारिको बलिष्ठो जायते । यत्पुनः कत्तु सामर्थ्य भवेत् तदा तेन स्वयमेवानिगृहितवलवीर्येण करणीयं न तु स्वस्य बलवीर्य गोपनीयमिति भावः ।। सू० ५॥
सूत्रम्-परिहारकप्पठियं भिक्खं गिलायमाणं णो कप्पइ तस्य गणावच्छेयगस्स णिज्जहित्तए अगिलाए तस्य करणिज्जं वेयावडियं जाव तो रोगायंकायो विप्पमुक्को, तओ पच्छा तस्स अहालहुस्सए नामं ववहारे पट्टवियव्वे सिया ।। सू० ६॥
छाया-परिहारकल्पस्थितं भिक्षु ग्लायन्तं न कल्पते तस्य गणावच्छेदकस्य निर्यहितुम् , अग्लान्या तस्य करणीयं वैयावृत्त्यं तावद् यावत् ततो रोगातकाद्विप्रमुक्ता, ततः पश्चात् तस्य यथा लघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ सू० ६ ॥
भाष्यम् -'परिहारकप्पट्टियं इति । 'परिहारकप्पट्ठियं' रिहारकल्पस्थितं परिहारनामके तपसि स्थितं परिहारतपो वहंतमित्यर्थः । 'भिक्खं भिक्षु 'गिलायमाणं' ग्लायन्तं ग्लानि शरीरमान्द्यमुपागतं परिहारतपसा वातपित्ताधुपचयापचयवशात् शरीराऽस्वास्थ्यमुपगतमित्यर्थः 'णो कपई नो कल्पते नोपयुज्यते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य यस्य गणावच्छेदकस्य समीपे आगतो ग्लायन् साधुस्तं तस्य गणावच्छेदकस्य न कल्पते 'णिज्जृहितए' निहितुं निवारयितुं वैयावृत्त्याऽकरणादिना निष्कासयितुं न कल्पते । किन्तु 'अगिलाए' अग्लान्या ग्लानिरहितो यथा भवेत् तथा राजा वेष्टिमिव 'वेठ,' 'वेगार' इति प्रसिद्धं, तद्वत् राजनिर्देशमिवानुमन्यमानेन 'सर्वज्ञादेशः' इति वुद्धया कर्म- -