________________
भाष्यम् उ०२ सू०५-६ ग्लानपरिहारकल्पस्थितभिक्षोस्तपोवाहनविधिः ५३. तत्रैक कल्पस्थितं कृत्वा 'अवसेसा निम्विसिज्जा' अवशेषाः कल्पस्थिताऽतिरिक्ताः सर्वेऽपि श्रमणा निर्विशेयुः परिहारतपो गृहीत्वा तत् समापयेयुः । 'अह' अथ ततः परिहारतपसि प्रविष्टानां सर्वेषां परिहारतपसः समाप्त्यनन्तरकाले 'पच्छा' पश्चात् 'सेवि णिव्विसेज्जा' सोऽपि कल्पस्थितोऽपि निर्विशेत् परिहारतपो गृहीत्वा तत्समापयेत् । सर्वेषां प्रायश्चित्तकरणमावश्यकमिति एकः कल्पस्थितो भूत्वा स सर्वानपि परिहारतपः कारयति । तदनन्तरं तेषां परिहारतपःसमाप्त्यनन्तरं स स्वयमपि परिहारतपः कुर्यादिति भावः ॥ सू० ४ ॥
सूत्रम् -परिहारकप्पट्टिए भिक्खू गिलायमाणे अण्णयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा से य संथरेज्जा ठवणिज्ज ठावइत्ता करणिज्ज वेयावडियं,
से य णो संथरेज्जा अणुपारिहारिएणं करणिज्जं वेयावडियं, से य संते बले अणुपारिहारिएणं कीरमाणं वेयावडियं साइज्जेज्जा से य कसिणे तत्थेव आरुहियन्वे सिया ॥ सू० ५॥
छाया-परिहारकल्पस्थितो भिक्षुर्लायन् अन्यतरत् अकृत्यस्थानं प्रतिसेव्य आलोचयेत स च संस्तरेत् स्थापनोयं स्थापयित्वा करणीय वैयावृत्त्यम्, ।
सचनो संस्तरेत् अनुपारिहारिकेण करणीयं वैयावृत्त्यम् स च सति वले अनुपारिहारिकेण क्रियमाणं वैयावृत्त्य स्वादयेत् तच्च कृत्स्नं तत्रैवारोहयितव्यं स्यात् ।। सू०५॥
भाष्यम्-'परिहारकप्पट्टिए' इति । 'परिहारकप्पढिए भिक्खू परिहारकल्पस्थितो भिक्षः परिहारनामके तपसि स्थितो वर्तमानः परिहारतपो वहन् "गिलायमाणे' ग्लायन् रोगादिकारणेन ग्लानः सन् 'अण्णयरं अकिच्चट्ठाणं' अन्यतरत् यत् किमप्येकम् अकृत्यस्थानं प्रतिसेवितवान् , 'पडिसेवित्ता' प्रतिसेव्य आलोएज्जा' आलोचयेत् स्वकृतापराधजातं स्ववचसा आचार्यादिसमीपे प्रकाशयेत् ‘से य संथरेजा' स च संस्तरेत् , स च ग्लानः रोगादिना पीडितोऽपि यदि- तादृशाकृत्यस्थानप्रतिसेवनसंजातपापविशुद्धयर्थ संस्तरेत् परिहारतपसो वहने समर्थों भवेत. ग्लायन्नपि अकृत्यस्थानप्रतिसेवनविशुद्धिबुद्धया परिहारनामकतपोवहनाय समुद्यतो भवेत् इत्यर्थः तदा तस्य 'ठवणिज्ज ठावइत्ता' स्थापनीयं स्थापयित्वा तदुचितप्रायश्चित्तं दत्त्वा एकेन केनचितास्थापितेन कल्पस्थितेनाऽनुपारिहारिकेण परिहारतपो वहतः श्रमणस्य ''करणिज्जं वेयावडिय'
यावत्यं भक्तपानादिना करणीयं तस्य पारिहारिकस्याऽनुपारिहारिकेण तथाविधा परिचर्या कर्तव्या येन निर्विघ्नं यथा भवेत् तथा परिहारतपसः संपूर्णता भवेदिति ।।
से य णो संथरेज्जा' स च परिहारतपोवाहको रोगादिपीडितत्वेन धृतिसहननबलाभावात् न सस्तरेत् परिहारत्पोवहने कष्टमनुभवन् समर्थो न भवेत् तदा 'अनुपारिहारिएणं करणिज्जं वेयावडियं' अनुपारिहारिकेण तस्य वैयावृत्त्यं यथायोग्यं परिचर्यारूपं शुश्रूषणं