________________
व्यवहारसून : सूत्रम्-वहवे साहम्मिया एगयो विहरति एगे तत्थं अण्णयरं अकिञ्चहाणं पङिसेवित्ता आलोएज्जा; तत्थ ठवणिज्ज ठावइत्ता- करणिज्जं वेयावडियं ॥ सू० ३॥ ,
छाया-वहवः सार्मिकाः एकतो विहरन्ति एकस्तत्राऽन्यतरद्, अंकृत्यस्थान' प्रतिसेव्याऽऽलोचयेत् तत्र स्थापनीय स्थापयित्वा करणीय वैयावृत्त्यम् ॥ सू० ३॥
भाष्यम्-'वहवे साहम्मिया' इति । 'वहवे साहम्मिया' बहवोऽनेके त्रयश्चत्वारः पञ्चादिका वां साघमिका. श्रमणाः 'एंगयओ विहरंति' एकतः सहैव विहरन्ति-तिष्ठन्ति 'एगे तत्थ' एक स्तत्र तेषु बहुषु साधुषु मध्ये एकः कश्चित् श्रमणः 'अण्णयरं अकिच्चट्ठाणं' अन्यतरत् अकृत्यस्थानम् अनेकेषु प्राणातिपातादिलक्षणाऽकृत्यस्थानेषु मध्याद् अन्यतरदं यत् किमप्येकमकृत्यस्थानं प्रतिसेवितवान् । 'पडिसेवित्ता' प्रतिसेव्य तादृशाऽन्यतरदकृत्यस्थानं सेवित्वा 'आलोएज्जा' आलोचयेत् . भाचार्यादीनां पुरतः प्रकटीकुर्यात्, आलोचनानन्तरं 'तत्थ' तत्र तस्मिन्नालोचके साघौ 'ठवणिज्ज ठावइत्ता स्थापनीयं स्थापयित्वा, स्थापनीयं दातुं योग्य परिहारतपोरूपं प्रायश्चित्तं स्थापयित्वा आरोप्य तं परिहारतपसि प्रवेश्येत्यर्थः तदितरः कोऽपि साधुः कल्पस्थित आनुपाः रिहारिको भूत्वा तेन आनुपारिहारिकेण कल्पस्थितेन तस्य 'करणिज्जं वेयावडियं वैयावृत्त्यम् आहारादिना शुश्रषणं करणीयमिति ।
___ अयं भावः--ते बहवः साधर्मिकों गीतार्थाः अंगीतार्था मिश्रा वा भवेयुः तत्र- यदि एको द्वरे त्रयश्चतुरादिका वा अकृत्यस्थानप्रतिसेविनो भवन्ति तदा तेषाम् भानुपारिहारिकत्वं कल्पस्थितत्वं तपोवाहकत्वं वैयावृत्त्यकारकत्वं च सर्व यथायोग्यं यथोचित विधिना करणीय मिति ॥ सू०.३॥
सूत्रम्--वहवे साहम्मिया एगयओ विहरंति सव्वेवि ते अण्णयरं अकिंच्चहाणं पडिसेविता आलोएज्जा, एगं तत्थ कंप्पागं ठावइत्ता अवसेसा णिन्विसिज्जाअह पच्छा सेवि णिन्विसेज्जा ॥ सू०४ ॥
छाया-बहवः साधर्मिका एकतो विहरन्ति सर्वेऽपि ते मन्यतरत् अकृत्यस्थान: प्रतिसेव्याऽऽलोचयेयुः, एक तत्र कल्पकं स्थापयित्वा अवशेषाः, निर्विशेयुः, अथ पश्चात्. सोऽपि निर्विशेत् ॥ सू० ४ ॥
भाष्यम्-'वहवे साहम्मिया' इति 'वहवे साहम्मिया' वहवोऽनेके साधर्मिकाः 'एगयओ विहरंति'एकतः सहैव विहरन्ति-तिष्ठन्ति, कदाचित् 'सव्वेवि ते' सर्वेऽपि ते श्रमणाः 'अण्णयरं अकिच्चहाणं' अन्यतरद्-अकृत्यस्थानं प्रतिसेवितवन्तः 'पडिसेवित्ता' तादृशाऽन्यतरद् अकृत्यस्थानं प्रतिसेव्य 'थालोएज्जा' आलोचयेयुः पापस्थानस्याऽऽलोचनां कुयुः, आलोचनां कर्तुमिच्छेयुः, तदा 'एग . तत्य कप्पागं ठावइत्ता' एक कमप्येकं श्रमणं तत्र प्रायश्चित्तकाले कल्पकं कल्पस्थितं स्थापयित्वा