________________
भाष्म् उ० १ सू० ३५
प्रथमोदेशकसमाप्तिः ४९ व्यावर्तेत विशोधयेत् अकरणत्याऽभ्युत्तिष्ठेत् , यथाहं तपःकर्म प्रायश्चित्तं प्रतिपद्येत, इति । तथा च अर्हतां सिद्धानां पुरत तत्साक्षिपूर्वकम् आलोचयेदात्मनो दोषजातं प्रकटयेत् , प्रतिक्रामेत् मिथ्यादुष्कृतं दद्यात् , अत्मानं निंदेत् , गर्हेत, अकृत्यकरणादात्मानं व्यावत्तत विनिवर्तेत, कृतातीचारविधूननेन आत्मानं विशोधयेत् , अकृत्यस्य पुनरकरणातयाऽभ्युत्तिष्ठेत् यथायोग्यम् अकृत्यस्थानानुसारि तप कर्म तपःकरणरूपं छेदादिप्रायश्चित्तं प्रतिपद्येत स्वीकुर्यादिति । "त्ति वेमि' इति ब्रवीमि, एवं प्रकारेण सुधर्मस्वामी ज़म्बूस्वामिनं प्रोवाच-यदहं प्रायश्चित्तविषयेऽश्रौषं तीर्थकरमुखात् तत्ते कथयामि, इति सूत्रार्थः ।। सू० ३.५ ॥ इति श्री-विश्वविख्यात-जगदल्लभ -प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य"--पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालचंतिविरचितायां "व्यवहारसूत्रस्य"
भाष्यरूपायां व्याख्यायां प्रथम उद्देशकः समासः ॥१॥
व्य. ५