________________
अथ द्वितीयोद्देशकः प्रारभ्यतेअथ प्रथमोद्देशकस्यान्तिमसूत्रेण सहास्य द्वितीयोदेशकप्रथमसूत्रस्य कः सम्बन्ध ! इत्यत्राह भाष्यकारः 'पुन्वं' इत्यादि । गाथा-पुव्वं एगो सेवइ, पावट्ठाणं च किंपि तस्स विही।
चुत्तोऽणेगाणं , सो बुच्चइ एस संबंधो ॥१॥ छाया-पूर्वम् एकः सेवते पापस्थानं च किमपि तस्य विधिः ।
प्रोक्तः अनेकेषां इह स प्रोच्यते एष सम्वन्ध्रः ॥ १ ॥ व्याख्या-पूर्व प्रथमोद्देशकस्य चरमे सूत्रे एकः कश्चित् भिक्षुः किमपि प्राणातिपातादिकं पापस्थान सेवते तस्य विधिः प्रोक्तः । इह अत्र द्वितीयोदेशकप्रथमसूत्रे द्वयादीनां पापस्थानसेवने स विधिः प्रोच्यते, एषः पूर्वापरोद्देशकयोः सम्बन्धो वर्त्तते ॥१॥
अनेन सम्बन्धेनायातस्यास्य द्वितीयोदेशकस्येदमादिसूत्रम्—'दो साहम्मिया' इत्यादि ।
सूत्रम्-दो साहम्मिया एगयओ विहरंति एगे तत्थ अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा ठवणिज ठावइत्ता करणिज्जं वेयावडियं ॥ सू० १॥
छाया-द्रो साधर्मिको एकतो विहरतः एकस्तत्राऽन्यतरत् अकृत्यस्थानं प्रतिसेव्य आलोचयेत् स्थापनीय स्थापयित्वा कत्तव्य वैयावृत्त्यम् ॥ सू० १ ॥
भाष्यम्-'दो साहम्मिया' इति । 'दो साहम्मिया' द्वौ साधर्मिकौ, तत्र द्वौ द्वित्वसंख्याविशिष्टौ समानः सदृशो धर्मः श्रुतचारित्रलक्षणो विद्यते ययोस्तौ द्वौ साधर्मिकौ समानधर्मिणौ एकसामाचारीकावित्यर्थः ‘एगयओ' एकतः एकत्र समुदितौ सन्तौ । 'विहरंति' विहरतः तिष्ठतः, 'एगे तत्थ' एकः कश्चित् तत्र द्वयोर्मध्ये 'अन्नयरं' अन्यतरत् यत् किमप्येकम् 'अकिच्चट्ठाणं' अकृत्यस्थानं प्राणातिपातादिलक्षणम् “पडिसेविता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् स्वकृतातिचारादिकं स्वचसा स्वकीयाचार्यादिसमीपे प्रकाशयेत् , तत्र यदि अगीतार्थकः प्रतिसेवनां प्राणातिपातादिलक्षणं पापं प्रतिसेवितवान् तदा तादृशाय आचार्यादिः ? शुद्धमेव उपवासाऽऽचामाम्लादिकमेव तपो दद्यात् न तु परिहारतपः, तस्य जडमतित्वेन परिहारतपोऽयोग्यत्वात् ।
अथ यदि स प्रतिसेवको गीतार्थो भवेत् तर्हि तस्मै गीतार्थाय परिहारनामकं तपो दद्यात् । 'ठवणिज्जं ठावइत्ता' स्थापनीयं तद् यथायोग्यं दातव्यप्रायश्चित्तं स्थापयित्वा दत्त्वा तत्र योऽन्यस्तदितरः साधुः स तस्य 'करणिज्जं वेयावडियं' वैयावृत्त्यं भक्तपानादिना शुश्रूषणं करणीयं भवेदिति ॥ सू० १॥