SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ४८ व्यवहारसूत्रे बहिर्वाह्यदेशे ग्रामस्य बहिःप्रदेशे, अथवा 'नगरस्स वा' नकरस्य नगरस्य वा, न करो गोमहिण्यादीनां विद्यते यत्र तत् नगरं अष्टादशकरवर्जितं, तस्य, 'निगमस्स वा' निगमस्य वा, तत्र निगमः प्रभूततरवणिग्जननिवासः, तस्य वा, 'रायहाणीए वा' राजधान्या वा, तत्र राज्ञाधिष्ठितं नगरं राजधानी, तस्या वा, 'खेडस्स का' खेटस्य वा, तत्र पांशुप्राकारनिवद्ध खेट, तस्य वा, 'कबडस्त वा' कर्बटस्य वा, तत्र कर्वट क्षुल्लकनगरम्, तस्य वा, 'मर्डवस्स वा' मडम्वस्य, वा तत्र मडम्बः सार्धगव्यूत्यन्तर्गतग्रामान्तररहितः, तस्य वा, 'पट्टणरस वा' अस्य- पत्तनस्य वा पट्टनस्य वेतिच्छाया, तत्र पत्तनं समस्तवस्तुप्राप्तिस्थानं जलस्थलनिर्गमप्रवेशं नगरम्, पट्टनं यत् नौभिरेव गम्यम् , उक्तञ्च पत्तनं शकटैर्गम्यं, घोटकै नौभिरेव वा। नौभिरेव च यद्गम्य, पट्टनं तत्प्रचक्षते ॥१॥ इति तादृशस्य पत्तनस्य वा पट्टनस्य वा, 'दोणमुहस्स वा' द्रोणमुखस्य वा, तत्र द्रोणमुखं जलस्थलपथोपेतो जननिवासः, तस्य वा, 'आसमस्स वा' आश्रमस्य वा, तत्राश्रमो नाम आश्रयविशेषः तापसादीनां, तस्य वा, 'संवाहस्य या' संवाधस्य वा, संवाधो जनसंमर्दः यथा यात्रादौ दिग्म्य आगत्य स्थानविशेषे जनानां समावेशः, तस्य वा, 'संनिवेसस्स वा' संनिवेशः सेनानिवेशः समागतसार्थवाहादि निवासस्थानं वा, तस्य वहिः पूर्वोक्तानां ग्रामादीनां वहिःप्रदेशे गत्वा तत्र 'पाईणाभिमुहे वा' प्राचीनाऽभिमुखो वा पूर्वाऽभिमुखो वा अथवा 'उदीणाभिमुहे वा उदीचीनाऽभिमुखो वा उत्तराभिमुखो वा सन् पूर्वदिगभिमुखः अथवा उत्तरदिगाभिमुखो वा मूत्वेत्यर्थः । अत्र पूर्वोत्तरयोर्दिशोर्ग्रहणं तयोरेवालोचनायां प्रशस्तत्वज्ञापनार्थ, पश्चिमदक्षिणयोदिशोरालोचनायामनर्हत्वादिति । तत्र गत्वा किं कुर्यात् ? तत्राह-'करकल०' इत्यादि । 'करयलपरिग्गहियं' सिरसावत्तं मत्थए अंजलि कटु' तत्र करतलाभ्यां संहताम्यां हस्ततलाभ्यां प्रकर्षण गृहीत. स्थापित इति करतलपरिगृहीतस्तम् , तथा शिरसि आवर्त्तते दूरमिव सीमितदेशं गत्वा पुनस्तत्रैव निवर्तते स आवतः चक्राकृतिः, तद्वत् यस्य, स एव शिरसावतः, तादृशं मस्तके अंजलि कृत्वा स्थापयित्वा ‘एवं वएज्जा' एवं वदयमाणप्रकारेण वदेत्, तदेव दर्शयति-'एवइया मे' इत्यादि, 'एवइया मे अवराहा' एतावन्तो ममापराधाः अकृत्यस्थानसेवनरूपाः एतावन्तः सन्ति 'एचइक्खुत्तो अहं अवरो' एताव(कृत्व एतावतो वारान् यावदहमपराद्धः अकृत्यस्थानसेवनरूपाऽपराधयुक्तो जातोऽस्मि, एवं सविनयमुक्या 'अरहंताणं सिद्धाणं अंतिए' महर्ता सिद्धानां समीपे तान् साक्षीकृत्येत्यर्थ 'आलोएज्जा' आलोचयेत्, सर्व स्वापराधजातं स्ववचसा प्रकटीकुर्यात् , प्रतिक्रामेत्, निदेत, गर्हेत,
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy