SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ०१ सू० ३५ आचार्योपाध्यायाधेकैकाभावे आलोचनाविधिः ४ । nommmmmmmmmmmmmmmmm नादिकं कर्त्तव्यम् ? तत्राह-'जत्थेव' इत्यादि । यदि पुनः सांभोगिकं साधर्मिकं न पश्येदालोचनार्थं तदा 'जत्थेव अन्नसंभोइयं साहम्मियं पासेज्जा' यत्रैवान्यसांभोगिकं साधर्मिकं पश्येत् तत्रैव स्थानविशेपे अन्यसांभोगिकम् अन्यगच्छीयं स्वसंभोगमर्यादाभिन्न किन्तु साधर्मिकं समानधर्मिकं जिनोत्तपञ्चमहावताराधकं पश्येत्, तमपि कथम्भूतं साधर्मिक तत्राह-'बहुस्सुयं' इत्यादि 'वहुस्मुयं वभागम' बहुश्रुत छेदादिप्रायश्चित्तसूत्रपटनपाठनकुशलं बह्वागम सूत्रार्थतः आगमज्ञानिनं पश्येत् 'तस्संतिए 'आलोएज्जा.' तस्यान्यसांभोगिकसाधर्मिकस्य सविधे आलोचयेत् इत्यादि सर्व पूर्ववद् व्याख्येयम् ३ । 'नो चेव अन्नसंभोइयं' नो चैव अन्यसांभोगिकं यदि पुनरन्यसांभोगिकं साधर्मिकं बहुश्रुतं वहागमं नो पश्येत् नो लभेत तदा 'जत्थेव सारूवियं पासेज्जा' यत्रैव स्थाने उपाश्रये वा सारूपिकं समान रूप सरूप तत्र भवः सारूपिकः तं सारूपिकं स्वसमानवेषम्, स्वसमानालोचनाकरणेच्छुकं वा कश्चिन्मुनि पश्येत् कथम्भूतं सारूपिकम् ? तत्राह-'बहुस्सुयं' इत्यादि 'वहुस्सुयं वभागमं बहुश्रुत बहागमं पूर्वोक्तप्रकारकं पश्येत् 'तस्संतियं आलोएज्जा.' तस्यामन्तिके आलोचयेत्, परस्परमालोचनां कुर्यात् इत्यादि पूर्ववदिति ४ । ___'नो चेव सारूवियं' नो चैव खलु सारूपिकं यदि पुनः सारूपिकं बहुश्रुतं बहागमं नैवं खलु पश्येत् नो लभेत तदा 'जत्थेव' यत्रैव स्थाने 'समणोवासग पच्छाकडं पासेज्जा' श्रमणोपासक श्रावकं कीदृशम् ? 'पच्छार्ड'-पश्चात्कृतं यः पूर्व साधुपर्याये स्थितः बहुश्रुतो बागम आसीत् ततस्तं साधुपर्याय मुक्त्वा गृहस्थो भवति स पश्चात्कृतः कथ्यते, त पश्येत् कीदृशम् ? 'वहस्सुयं वभागम' बहुश्रुत वबागमं "तस्संतिए' तस्यान्तिके 'आलोएज्जा.' आलोचयेत् आलोचनादि सर्वविविं पूर्वोक्तप्रकारेणैव कुर्यात् ५।। ___ 'नो चेत्र समणोवासगं पच्छाकडं पासेज्जा' यदि पूर्वोक्तं श्रमणोपासकं पश्चास्कृतमपि न पश्येत् तदा-'जत्थेव सम्मभावियाई' यत्रैव खलु स्थानविशेपे सम्यग्भावितानि जिनवचनवासितान्तःकरणानि 'चेइयाई' चैत्यानि 'चितिस ज्ञाने' इति धातोनिष्पन्न चैत्य, तानि सम्यग्भावयुक्ताः गृहस्था इत्यर्थः, येषामन्त करणे न रागो न चेp स्वपरगुणावगुणविवेकज्ञाः केऽपि गृहस्था भवेयुस्तान् पश्येत्, तन्मध्यात् कश्चिदेकं विवेकबुद्ध्या आलोचनादानकुशलं निरीक्षेत, बहुवचनं चात्र तादृशगृहस्थानां बहुत्वात् 'तेसंतियं आलोएज्जा.' तेषामन्तिके समीपे आलोचयेत्, इत्यादिपदानि पूर्ववदेव व्याख्येयानीति ६ । अथ यदि 'नो चेव सम्मंभावियाई' नैव सम्यग्भावितानि चैत्यानि तादृशान् गृहस्थान नो पश्येत् तदा-'वहिया गामस्स वा’ बहिर्ग्रामस्य वा ग्रामः वृतिवेष्टितो जननियासः, तस्य ग्रामस्य
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy