________________
व्यवहारसूत्रे
क्षेपस्य अयोग्यत्वात् 'तेसंतियं आलोएज्जा' तेषाम् अन्तके आलोचयेत् तेषामाचार्योपाध्या यानामन्तिके समीपे आलोचयेत् आलोचनां कुर्यात् आचार्योपाध्यायानां समीपे स्वकृताऽतिचारजातं म्लायता वदनेन वचनद्वारा नतु भावभङ्गया जनान्तरमुखेन वा प्रकटीकुर्यात् । 'पडिकमेज्जा' प्रतिक्रामेत् पापात् प्रत्यावर्तितुं मिथ्यादुष्कृत दद्यात् 'निंदेज्जा' निंद्यात् स्वोपार्जितपापकर्मणः स्वात्मानमेव साक्षीकृत्य निन्दा कुर्यात् 'गरहेज्जा' गत गुरु साक्षिकं विनिर्माय स्वकृतपापकर्मणो जुगुप्सां कुर्यात्, सर्वत्रापि निन्दनं गहेणं च एतदुभयमपि परमार्थतस्तदैव भवति यदा पुनः तादृशकर्मकरणत: सर्वथैव प्रतिनिवर्त्तते तत आह-'विउद्देज्जा' व्यावतेंत तस्मादकृत्य प्रतिसेवनात् सर्वथैव प्रतिनिवृत्तो भवेत् । प्रतिनिवर्त्तनेऽपि पापकर्मकरणतस्ताहशात्यापात् तदा मुच्यते यदा स्वकीयात्मनो विशोधिर्भवति, आत्मनो विशुद्ध्यभावे प्रतिनिवर्तनमपि निरर्थकमेवेत्याह-'विसोहेज्जा' विशोधयेदात्मान, पापमलप्रक्षालनेनाऽस्मान निर्मलीकुर्यात् । यथा भूमिलठिताश्व उत्थाय शरीरसंलग्नरजोऽङ्गानि विध्य पूर्वापररजोनिर्गमेन निर्मलीभवति तथैव भिक्षुः पापरजो विधूय निर्मलीभवेत् , सेयमात्मनो विशुद्धिः कृतस्य पापस्याऽपुनःकरणतायामेव सभवति, अन्यथा कृतकर्मणः पुनःकरणतायामात्मविशुद्धेरसंभवात् तत्राह-'अकरणयाए अभुटेज्जा' अकरणतया पुनरभ्युत्तिष्ठेत्-अकरणतया 'पुनरेवं न करिष्यामीति निश्चित्याऽभ्युत्तिष्ठेत् सानधानो भवेदित्यर्थः । पुनरकरणतया-अभ्युत्थानेऽपि पापाद्विशोधिः प्रायश्चित्तप्रतिपत्त्यैव भवति, नतु प्रायश्चित्तमन्तरेण पापापनोदनम् , अत आह-'अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा' यथाई तपःकर्म प्रायश्चित्तं प्रतिपद्येत, यथा यथायोग्यम् पापानुसारि येन पापनिवृत्तिर्भवेत्तादृशं तप कर्म, तत्र तपोग्रहणमुपलक्षणं तेन छेदादिकं प्रायश्चित्तं पापनाशकं कर्म प्रतिपयेत स्वीकुर्यात् १ । यदि आत्मीया आयोपाध्याया न लभ्यन्ते तदा किं कुर्यात् ! तत्राह
'नो चेव' इत्यादि 'नो चेव अप्पणो' नो चैव नैव यदि पुनः आत्मनः स्वगच्छस्य स्वगच्छसंवन्धिनः 'आयरियउवज्झाए' आचार्योपाध्याया आसन्नप्रदेशे न विद्यन्ते दूरादिदेशव्यवधानतो वा तान् न पश्येत् तदा-'जत्थेच संभोइयं साहम्मियं पासेज्जा' यत्रैव सांभोगिकं साधर्मिकं पश्येत्, आचार्योपाध्यायानामलाभे यत्रैव खलु स्थानविशेष उपाश्रये वा सांभोगिकं सामानसामाचारीकं साधर्मिकं पश्येत् , कीदृशगुणसंपन्नं साधर्मिकम् ? त्त्राह- 'बहुस्सुयं' इत्यादि । 'बहुस्सुयंकमागम' बहुश्रुतं वह्वागर्म, तत्र बहुश्रुतं नामाऽनेकविधछेदादिसूत्रमर्मकुशलम् उद्यतविहारिणं क्रियापात्रं, बह्वागमं सूत्रतोऽर्थतश्च प्रभूतागमज्ञातारं पश्येत्, 'तस्संतियं आलोएज्जा तस्याऽन्तिके आलोचयेत् इत्यादि यथार्ह तपःकर्म प्रायश्चित्तं प्रतिपद्येत, इतिपर्यन्तं पूर्ववद् व्याख्येयम् २। ___'नो चेव संभोइयं साहम्मियं' नो चैव खलु नैव यदि खलु सांभोगिकं साधर्मिकं, यदि पुन. स्वकीय सांभोगिकं साधर्मिकं बहुश्रुतं वहागमं न पश्येत् , तदा कत्य. समीपे आलोच