SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm त्तए' स्थविराश्च खलु तेषां वितरेयुः आज्ञां दद्युः, एवं तदा खलु कल्पते तेषां अभिनिपद्यां वा अभिनषेधिकी वा चेतयितुं कर्तुम् , स्थविराणामाज्ञया तैः सह वस्तुं कल्पते इति भावः । यदि 'थेरा य ण्ह' स्थविराः खलु 'नो वियरेज्जा' नो वितरेयुः नैवाऽनुज्ञां कुर्युः ‘एवं ण्हं णो कप्पइ' एवमुक्तेन प्रकारेण अनुज्ञामन्तरेण खलु नो नैव कल्पते तेषाम् “एगयओ' एकतः एकस्थाने 'अभिनिसेज्जं वा' अभिनिषद्यां वा 'अभिनिसीहियं वा' अभिनषेधिकी वा 'चेइत्तए' चेतयितुं कर्तुमित्यर्थ. 'जो हं थेरेहिं अविइण्णे' यः कश्चित् खलु अपारिहारिकः स्थविरैराचार्यादिभिः अवि. तीर्ण अननुज्ञात सन् पारिहारिकैः सह एकस्थाने 'अभिनिसेज्जं वा' अभिनिषधां वा 'अभिनिसीहियं वा' अभिनषेधिकी वा 'चेतई' चेतयति करोति 'से' तस्य अपारिहारिकस्य 'संतरा छेए वा परिहारे वा' स्वान्तरात् स्वकृतमन्तरं स्वान्तरं तस्मात् यावदागत्य स न मिलति, यावद्वा स्वाध्यायभूमेर्नोत्तिष्ठति तावत् यद् व्यवधानं तद् अन्तरं, तस्मात् स्वकृतादन्तरात् छेदो वा पञ्चदिवसात्मकः, परिहारो वा परिहारतपो वा मासलघुकादि प्रायश्चित्तमापद्यते इति सूत्रार्थः ।। सू० २१ ॥ __नन्वस्य प्रकृतसूत्रस्याऽनन्तरपूर्वसूत्रेण सह कः सम्बन्धः ? इति चेत् अत्रोच्यते-अत्र पूर्वपूर्वसूत्रेषु परिहारः कथितः, न च कुत्रापि मध्ये परिहारप्रकरणं परित्यक्तम् , ततः प्रकृतः परिहारः, परिहारनामकं तपोविशेषः, स च क्रियाविशेषरूप एव, क्रिया च कर्तारमन्तरेणाऽनुपपन्नेति परिहारक्रियाप्रकरणाऽनुरोधात् अत्र परिहारी परिहारक्रियायाः कर्ताऽभिधीयते, अयमेव पूर्वपूर्वसूत्रैः सह प्रकृतसूत्रस्य संबन्ध इति । अथवा अनन्तरपूर्वसूत्रे इदमुक्तं यत् स्थविरैरनुज्ञातानामभिनिषद्यामभिनषेधिकी वा यदि गच्छति ततः प्राप्नोति परिहारमिति । अत्र प्रकृतसूत्रे तु स एव परिहारतामुपगत इति प्रतिपाद्यते । अथवा अनन्तरसूत्रेऽभिनिषद्यादिगमनं कथितं, स प्रत्यासन्नक्षेत्रनिगम , इदं तु प्रकृतसूत्रं दूरे निर्गमनं कथयति, इत्यनेन सम्बन्धेनायातस्य प्रकृतसूत्रस्य व्याख्यानं प्रस्तूयते-'परिहारकप्पट्टिए' इत्यादि । सूत्रम्-परिहारकप्पट्ठिए भिक्खू वहिया थेराणं वेयावडियाए गच्छेज्जा, थेरा य से सरेज़्जा कप्पइ से एगराइयाए पडिमाए जंणं जं णं दिसं अण्णे साहम्मिया विहरंति तं गं तं णं दिसं उवलित्तए, नो से कप्पड़ तस्थ विहारवत्तियं वत्थए, कप्पइ से तत्थ कारणवत्तिय वत्थए, तंसि च णं कारणंसि निहियसि परो वएज्जा वसाहि अज्जो एगरायं वा दुरायं वा, एवं स कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जे तत्थ परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥ सू० २२॥ छाया-परिहारकल्पस्थितो भिक्षः वहिः स्थविराणां वैयावृत्याय गच्छेत् स्थविराश्च स्मरेयुः कल्पते तस्य एकरात्रिक्या प्रतिमया यां खलु यां खलु दिशम् अन्ये साधर्मिका
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy