SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ०१सु० २२-२३ परिहारकल्पस्थितस्य प्रामान्तरगमनविधिः ३३ यिहरन्ति तां तां खलु दिशमुपलातुम्, न तस्य कल्पते तत्र विहारप्रत्ययिकंवस्तुम्, कल्पते तस्य कारणप्रत्ययिक वस्तुम्, तस्मिश्च खलु कारणे निष्ठिते परो वदेत् वस खलु आर्य एकरात्रं वा द्विरात्रं वा, एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम् , नो तस्य कल्पते परमेकरात्राद्वा. द्विरात्राद्वा वस्तुम् , यदि तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्य सान्तरात् छेदो वा परिहारो वा ॥ सू० २२ ।।। भाष्यम्-'परिहारकप्पठिए' परिहारकल्पस्थितः । तत्र-परिहारस्य कल्पः सामाचारी इति परिहारकल्प', तस्मिन् परिहारकल्पे स्थित इति परिहारकल्पस्थितः परिहारतपसि वर्तमान इत्यर्थः 'भिक्खू' भिक्षुः 'वहिया' बहिरन्यत्र नगरादौ 'थेराणं' स्थविराणाम् अन्यग्रामादौ स्थितानामाचार्यादीनाम् 'वेयावडियाए' वैयावृत्याय ग्लानत्वादिकारणे वैयावृत्त्यकरणाय 'गच्छेज्जा' गच्छेत् 'थेरा य से सरेज्जा' स्थविराश्च तस्य स्मरेयुः परिहारतपः स्मृतिपथमानयेयुः यथा-एष परिहारकल्पस्थितो वर्तते, स्मरद्भिस्तैः स परिहारी वक्तव्यो यावत् प्रत्यागच्छसि तावन्निक्षिप्यतां परिहारतप इति । तत्र यदि परिहारिके सामर्थ्यमस्ति ततः परिहारतपः प्रपन्नो गच्छति । अथवा नास्ति चेत् सामर्थ्य ततः परिहारतपो निक्षिपति । परिहारतपो निक्षिप्य च 'कप्पइ से' तस्य कल्पते 'एगराइयाए पडिमाए' एकरात्रिक्या प्रतिमया, अत्र प्रतिमाशब्दोऽभिग्रहवाची, ततश्च एकरात्रिकेणाऽभिग्रहेणेत्यर्थः, अर्थात्-यत्रापान्तराले वसामि तत्र गोकुलादो प्रचुरगोरसादिभोज्यवस्तुलाभेऽपि प्रतिबन्धमकुर्वता कारणं विना मया एकरात्रमेव वस्तव्यं नाधिकं वस्तव्यमित्याकारेणाऽभिग्रहेण एकरात्रिकवासरूपमभिग्रहं कृत्वेत्यर्थः 'जं णं जंणं दिसं' यां यां खलु दिशं 'जणं' इत्यत्र द्वितीया विभक्तिः सप्तम्यर्थे ज्ञातव्या तेन यस्यां यस्यां खल दिशि दिशायामित्यर्थः, अथवा यां यां खलु दिशमाश्रित्य 'अन्ने साहम्मिया' अन्ये साधर्मिकाः लिङ्गसाधर्मिकाः प्रवचनसाधर्मिका वा संविग्नसंभोगिकादयो वक्ष्यमाणाः 'विहरंति' विहरन्ति तिष्ठन्ति 'तं णं तं णं दिसं उवलित्तए' तां तां खलु दिशम् उपलातुं ग्रहीतुम् आश्रयितुमित्यर्थः । 'नो से कप्पई' नो नैव 'से' तस्य परिहारकम्पस्थितस्य निक्षिप्तपरिहारतपसो वा आहारादिलोभेन कल्पते 'तत्थ' तत्र ग्रामादौ 'विहारवत्तियं वत्थए' विहारप्रत्ययिकम् अवस्थाननिमित्तं तत्र वस्तुं न कल्पते इति, किन्तु 'कप्पई से तत्थ' कल्पते तस्यानन्तरोदितस्य भिक्षो. यत्र भिक्षां कृतवान् उषितवान् वा तत्र-'कारणवत्तियं वत्थए' कारणप्रत्ययिकं वक्ष्यमाणसूत्रार्थप्रतिपृच्छादानवैयावृत्त्यादिकारणनिमित्तं वस्तुं वास कत्तुं कल्पते इति । अथ च 'तंसि च णं कारणंसि निट्ठियंसि' तस्मिंश्च खलु कारणे निष्ठितेयत् कारणविशेषमासाद्य ग्रामान्तर स्थानान्तर वा उपितः तस्मिन् कारणविशेष निष्ठिते परिसमाप्ते सति यदि 'परो वएज्जा' परः-तत्स्थानाधिष्ठित आर्चादिर्वदेत् आग्रहं कुर्यात् यथा 'साहि यज्जो' हे आर्य ! वसाऽत्र मदीयस्थाने 'एगरायं वा दुरायं वा' एकरात्र वा द्विरात्रं वा, हे आर्य ! दूरादागतोऽसि महत्कार्य संपादितवान् , अतोऽत्र एकरात्रं वा द्विरात्रं वा वस, दूरादागतो. म्य, ५
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy