________________
भाष्यम् सू० २१
पारिहारिकाsपारिहारिकानामेकत्रवासविधिः ३१
एकत अभिनिषद्यां वा अभिनैषेधिक वा चेतयितुम्, स्थविराश्च खलु तान् वितरेयुः एवं खलु तेपां कल्पते एकतः अभिनिषद्यां वा अभिनैपेधिक वा चेतयितुम्, स्थविरा: खलु तेषां नो वितरेयुः एवं खलु तेपां नो कल्पते एकतः अभिनिषद्यां वा अभिनैषेधिक वा चेतयितुम्, यः खलु स्थविरैरवितीर्णोऽभिनिषद्यां अभिनैपेधिकीं वा चेतयते तस्य स्वान्तरात् छेदो वा परिहारो वा ॥ सू० २१ ॥
भाष्यम् -' वहवो' इति 'वहवो परिहारिया' बहवोऽनेके पारिहारिका वा, परिहारः तपोविशेषः, तेन तपोविशेषेण चरन्ति ये ते पारिहारिकाः, 'बहवे अपरिहारिया वा' बहवोऽनेके अपरिहारिका पारिहारिकव्यतिरिक्तास्ते ‘इच्छेज्जा' परस्परमिच्छेयु' इच्छां कुर्यु' । किमिच्छेयुस्तत्राह - 'एगयओ' एकतः एकस्थाने तत्रैव वसतौ वसत्यन्तरे वा 'अभिनि सेज्जं वा' अभिनिषद्याम् अभि-रात्रिमभिव्याप्य स्वाध्याय निमित्तमागताः सन्तो निषीदन्ति तिष्ठन्ति यस्यां सा तामभिनिषद्यां वसतिमित्यर्थ', 'अभिनिसीहियं वा' अभिनैपेधिकीं वा, निपेधः स्वाध्यायव्यतिरेकेण सकळ्यापारप्रतिषेधः, तेन निषेधेन निर्वृत्ता नैषेधिकी केवलस्वाध्यायस्थानम् "सुत्तत्थं निसीहिया" इति वचनात् अत्र नैपेधिकी सूत्रार्थप्रायोग्या ज्ञातव्या, न तु कालकारणप्रायोग्या, अभि- आभिमुख्येन सूत्रार्थ - प्रायोग्यतया नैषेधिको अभिनैषेधिको तामभिनैषेधिकीं वा ।
अयमर्थः -- तत्र दिवसे स्वाध्याय प्रवचनं कृत्वा रात्रौ वसतिमेव साधव प्राप्नुवंति सा अभिनैपेधिकी, अभिनैपेधिक्यामेव स्वाध्यायं कृत्वा रजनीमुषित्वा प्रातः काले वसतिमुपागच्छन्ति सा अभिनिपद्या, तामभिनिषद्याम् अभिनैषेधिकीं स्वाध्याय स्थानविशेषं वा 'चेइत्तए' चेतयितुं कर्त्तुम्, यदि अनेके पारिहारिका अपरिहारिकाश्च एकस्मिन् स्थाने अभिनिषयाम् अभिनपेधिक वा कर्त्तुं वस्तुमिच्छेयु' तदा ' णो णं कप्पइ थेरे अणापुच्छित्ता एगयओ अभिनिसेज्जं वा अभिनिसीहियं वा चेइत्तए' नो खलु कल्पते स्थविराननापृच्छय एकतः एकस्थाने अभिनिषद्यां वा अभिनैषेधिकीं वा चेतयितुं कर्तुम् । तत्र नो नैव कथमपि एतेषां पारिहारिकाणामपरिहारिकाणां च कल्पते स्थविरान् आचार्यप्रभृतीन् अनापृच्छय तेषामाचार्यादीनामाज्ञामन्तरेण एकस्थाने स्ववसतौ अभिनिषद्याम् अभिनैषेधिकीं वा कर्त्तुं नो कल्पते इति भावः । साधूनामुच्छ्वासनि‘श्वासनिमेषादिव्यतिरेकेण शेषाणां समस्तानामपि व्यापाराणां गुरुपृच्छाधीनत्वात् । तदेवं प्रतिषेधावयवं निरूप्य विधिं निरूपयितुमाह - ' कप्पड़ हूं थेरे आपुच्छित्ता ते एगयओ अभिनिसेज्जं वा अभिनिसीहियं वा चेइत्तए, कल्पते खलु स्थविरानापृच्छ्य तेषाम् एकतः अभिनिपद्यां वा अभिनैषेधिकों वा चेतयितुम् आचार्याज्ञया तेपामेकस्थानेऽभिनिषद्यादि क कल्पते इति । अथ यदि स्थविरा आपृष्टाः सन्त आज्ञां वितरेयुः तदा किं कुर्यु . ' इत्याशङ्कायामाह्—'थेरा य ण्हं से वियरिज्जा एवं ह कप्पइ अभिनिसेज्जं वा अभिनिसीहियं वा चेह
ܕ