________________
व्यवहारसूत्रे
परिहारद्वाणं पडिसेवित्ता आलोएज्जा' अन्यतरत् अनेकेषु यत् किमप्यन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् आचार्यसमक्ष प्रकाशयेत् । तत्र-'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्य सकपटमालोचयमानस्य 'ठवणिज्ज ठावइत्ता' स्थापनीयं स्थापयित्वा यः परिहारतपःप्रायश्चित्तस्थानमापन्नः तस्य परिहारतपोदानार्थं सकलसाधुसाध्वीजनपरिज्ञानाय सकलगच्छसमक्ष निरुपसर्गप्रत्ययं कायोत्सर्गः पूर्व क्रियते । कायोत्सर्गकरणानन्तरं गुरुः कथयति-अहं ते कल्पस्थितः, अयं च साधुः अनुपारिहारिकः । ततः स्थापनीयं स्थापयित्वेति यत्नेन सहाचरणीयम् , तत्, स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापनपरिवर्तनादि, तत्सकलगच्छसमक्षं स्थापयित्वा कल्पस्थितेनाऽनुपारिहारिकेण च 'करणिज्ज वेयावडिय” यथायोगमनुशासनानुप्रहरूपं वैयावृत्यं करणीयम् । ठाविए वि पडिसेवित्ता स्थापितेऽपि प्रतिसेव्य ताभ्याम् आचार्यवैयावृत्त्यकारिभ्यां क्रियमाणेऽपि वैयावृत्त्ये स्थापितेऽप्यालापनादौ कदाचित् किमपि प्रतिसेव्य गुरोः समीपमुपस्थितो भवेत् । यथा-अहम् अमुकं प्रायश्चित्तस्थानमापन्नः । ततः 'सेवि कसिणे तत्थेव आरुहियव्वे सिया' तदपि कृत्स्नं सेव्यमानं परिहारतपसि आरोहयितव्यम् आरोपणीयं स्यात् । कृत्स्नं कतिविधं भवति । अत्र गाथामाह
"कसिणं छबिहमुत्तं, पडि सेवण संचयं च आरोवण ।
तत्तो अणुग्गई चाऽणुग्घायं निरवसेसं च” ॥१॥ छाया-कृत्स्नं पविधमुक्तं प्रतिसेवनं संचयं च आरोपणम् ।
ततः अनुग्रहं च अनुद्घातं निरवशेष च ॥१॥
तत्र-कृत्स्न षट्प्रकारकं भवति, तथाहि-प्रतिसेवनाकृत्स्नम् १ संचयकृत्स्नम् २, आरोपणाकृत्स्नम् ३, अनुग्रहकृत्स्नम् ४, अनुद्घातकृत्स्नम् ५, निरवशेषकृत्स्नम् ६ चेति । तत्रप्रतिसेवनाकृत्स्नम्-ततः परमन्यस्य प्रतिसेवनास्थानस्यासंभवात् सर्वमपि पञ्चमहाव्रतभङ्गरूपमिति प्रथमो भेदः १। संचयकृत्स्नम्-अशीत्यधिक मासशतं ततः परस्य संचयस्याभावादिति द्वितीयो भेदः २। आरोपणाकृत्स्न-पाण्मासिकं ततः परं भगवतः श्रीवर्द्धमानस्वामिनस्तीर्थं आरोपणाया अभावादिति तृतीयो भेदः ३ । अनुग्रहकृत्स्नं-यत् षण्णां मासानां प्रायश्चित्तमारोपितं तत्र षड् दिवसा गताः, तदनन्तरम् अन्यान् षण्मासान् आपन्न., ततो यद् अवहमानं तत्सर्वमपि त्यक्तम् , पश्चाद् यदन्यत् पाण्मासिकप्रायश्चित्तमापन्न तद्वहति, पूर्व षण्माससेवितेषु पड्दिनेषु यदन्यत् पाण्मासिक सेवितं तद् वहति, यस्मात् पञ्च मासाश्चतुर्विशतिर्दिवसाश्चारोपिता., तद् एतद् अनुग्रहकृत्स्नम् , अन्यथा पूर्वपाण्मासिकस्य तथा अपरपाण्मासिकस्य चेत्युभयोर्वहने