________________
भाष्यम् सू० २०
परिहारस्थानसेविनः प्रायश्चित्तदानविधिः २९ द्वादशमासस्य प्रायश्चित्तप्रसङ्ग आपतेत, अत्र तु केवलमेकस्यैव पाण्मासिकस्य दानेनानुग्रहो जात इति अनुग्रहकृत्तमिति । एतावता अनुग्रहकृत्स्नविपक्षीभूतं निरनुग्रहकृत्स्नमपि सूचितमिति ज्ञातव्यम् , तथाहि-षण्मासे प्रस्थापिते पण मासा. पञ्चविंशतिदिवसाश्च व्यूढाः, तदनन्तरमन्यत् पाण्मासिकमापन्नस्तद्वहति, पूर्वपाण्मासिकस्य येऽवशिष्टाः षड् दिवसास्तेऽत्र षड् दिवसा एव त्यक्ताः, अवशिष्टाः षण्मासास्तु कारिता एव, मत एव तत् निरनुग्रहकृत्स्नं भवतीति चतुर्थो भेदः ४ । अनुद्घातकृत्स्नम्-यत् कालगुरुर्यथा मासगुर्वादिः, अथवा निरन्तरं प्रायश्चित्तदानमनुद्घातकृत्स्नम् , अत्र मासलघुकाधपि निरन्तरं दीयमानमनुद्घातकृत्स्नमेव ज्ञातव्यम् । अथवा अनुद्घातं त्रिविधम्-कालगुरु १ तपोगुरु २, उभयगुरु ३ चेति । तत्र-कालगुरुनाम यद् ग्रीष्मादौ अतिकर्कशे दीयते १, तपोगुरु यदष्टमादि दीयते, निरन्तरं वा यदष्टमादि दीयते २, उभयगुरु-यद् ग्रीष्मादौ काले निरन्तरं च दीयते तदिति ३, पञ्चमो भेदः ५ । निरवशेषकृत्स्नंनाम यदापन्नं प्रायश्चित्तं तत् सर्वमन्यूनमनतिरिक्तं च दीयते इति षष्ठो भेदः ६। अत्रतस्य प्रतिसेवकस्य आचार्यसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेवाह-'पुव्वं' इत्यादि । 'पुत्वं पडिसेवियं पुव्वं आलोइयं' पूर्व प्रतिसेवितं पूर्वमालोचित, तत्र पूर्वमित्यस्य पूर्वाss. नुपूर्व्या इत्यर्थः । ततश्च पूर्वाऽऽनुपूर्व्या गुरुलघुपर्यालोचनया लघुपञ्चकादिक्रमेण प्रतिसेवितं, पूर्व पूर्वाऽऽनुपूर्त्या प्रतिसेवनाऽनुक्रमेणऽऽलोचितम् १। 'पुच्वं पडिसेवियं पच्छा आलोइयं' पूर्व प्रतिसेवितं पश्चादालोचितम् , पूर्व गुरुलघुपर्यालोचनया पूर्वाऽऽनुपूर्व्या मासलघुकादि प्रतिसेवितं, तदनन्तरं च तथाविधाल्पप्रयोजनोत्पत्तौ च गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम, आलोचनाकाले च पश्चात् पश्चानुपा आलोचितं, पूर्व लघुपंचकाद्यालोचितं पश्चात् मासादीति २ । 'पच्छा पडिसेवियं पुव्वं आलोइयं' पश्चात् पश्चानुपूर्व्या प्रतिसेवितं पूर्वम् आलोचनाकाले पूर्व लघुपंचकाद्यालोचितं पश्चात् गुरुमासादीति ३ । 'पच्छा पडिसेवियं पच्छा आलोइयं' पश्चात् प्रतिसेवितं पश्चादालोचितं, पश्चात् पश्चानुपूर्व्या प्रतिसेवितं, गुरुलघुपर्यालोचनादिविरहितो यथाकथञ्चन प्रतिसेवितं, पश्चात् पश्चानुपूा आलोचितं प्रतिसेवनाऽनुक्रमेणाऽऽलोचितम. अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽप्यालोचितमिति ४ । इयं चतुर्भङ्गी प्रतिकुञ्चनाऽप्रतिकुञ्चनाभ्यां भवति, अतस्तामाह-'अपलिउंचिए' इत्यादि । 'अपलिउंचिए अपलिउंचिय' अप्रतिकुञ्चितेऽप्रतिकुश्चितं पूर्व संकल्पकालेऽप्रतिकुञ्चितम् आलोचनाकालेऽपि अप्रतिकुञ्चितमेवालोचयतीति १ । 'अपलिउंचिए पलिउंचियं' अप्रतिकुञ्चिते प्रतिकुञ्चितं पूर्व संकल्पकालेऽप्रतिकुञ्चितम्, आलोचनाकाले प्रतिकुञ्चितं सकपटमालोचयतीति २। 'पलिउंचिए अपलिउंचियं' प्रतिकुञ्चितेऽप्रतिकुञ्चितं पूर्वसंकल्पकाले प्रतिकुञ्चिते आलोचनाकाले कुतश्चित् कारणवशात् भावपरावर्तनात् अप्रतिकुञ्चितमालोचयतीति ३ । 'पलिउंचिए पलिउंचिय' प्रतिकुञ्चिते प्रतिकुञ्चितं पूर्वसंकल्पकाले प्रति