________________
भाज्यम् सु० २०
परिहारस्थान सेविनः प्रायश्चित्तदानविधिः २७
प्रतिसेवते ततः प्रतिसेवनायां यत् प्रायश्चित्तं सेवते 'सेवि कसिणे' तदपि कृत्स्नम् अनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा 'तत्थेव ' तत्रैव पूर्वप्रस्थापितप्रायश्चित्ते एव 'आरुहिय-वे सिया' आरोहयितव्यमारोपणीयं स्यात् पुरतो यत्प्रायश्चित्तं षाण्मासिकादि तावन्मात्रमेव देयं न ततोऽधिकमिति ॥ सू० १९ ॥
सूत्रम् - जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासि वा बहुसोवि साइरेगपंचमासियं वा, एएसिं परिहारहाणाणं अन्नयरं परिहारद्वाणं पडिसेवित्ता आलोएज्जा, पलिउंचिय आलोएमाणस्स ठवणिज्जं ठावड़ता, करणिज्जं वेयावडियं, ठाविएवि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियवे सिया, पुव्यं पडिसेवियं पुत्रं आलोइयं १, पुव्वं पडिसेवियं पच्छा आलोइयं २, पच्छा पडिसेवियं पुचं आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं ४ | अपलिउंचिए अपलिउंचियं १, अपलिउंचिए पलिउंचियं २, पलिउंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४। पछिउंचिए पलिउंचियं आलोएमाणस्स सत्र्वमेयं सकयं साहणिय जे एयाए पsत्रणा पविए निव्विसमाणे पडि सेवइ सेवि कसिणे तत्थेव आरुहिय-वेसिया || सू० २० ॥
छाया -यो भिक्षुर्वशोऽपि चातुर्मासिकं वा, बहुशोऽपि सातिरेकचातुर्मासिकं वा, बहुशोऽपि पाञ्च मासिकं वा, बहुधोऽपि सातिरेकपाञ्चमासिकं वा, एतेषां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेव्यालोचयेत्, प्रतिकुञ्च्यालोचयमानस्य स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यम् । स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात्, पूर्व प्रतिसेवितं पूर्वमालोचितं १, पूर्वं प्रतिसेवितं पश्चादालोचितं २, पश्चात् प्रतिसेवितं पूर्वमालोचितं ३, पश्चात्प्रतिसेवितं पश्चादालोचितम् ४। अप्रतिकुञ्चिते अप्रतिकुञ्चितं १, अप्रतिकुञ्चिते प्रतिकुञ्चितम् २, प्रतिकुञ्चिते अप्रतिकुञ्चितम् ३, प्रतिकुञ्चिते प्रतिकुञ्चितम् ४। प्रतिकुञ्चिते प्रतिकुञ्चितमालोच्यमानस्य सर्वमेतत् स्वकृतं संहत्य, य पतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् ॥ सू० २० ।।
भाष्यम् – 'जे भिक्खू' इति । 'जे भिक्खू' य' कश्चित् भिक्षुः साधुः साध्वी वा । 'बहुसोवि' बहुशोऽपि 'चाउम्मासिथं वा' चातुर्मासिकं वा वा 'बहुसोवि' बहुशोऽपि 'साइरेग चाउम्मासियं वा' सातिरेकचातुर्मासिकं पञ्चदिवसाद्यधिकं चातुर्मासिकप्रायश्चित्तस्थानं वा 'बहुसोदि पंचमासि वा' बहुशोऽपि पाञ्चमासिकं वा 'बहुसोवि साइरेगपंचमासि वा ' बहुशोऽपि सातिरेकं पञ्चदिनाथधिकं पाञ्चमासिकं परिहारस्थानं वा । 'एएस परिहारट्ठाणाणं' एते पांचहुश. पदघटितचातुर्मासिकादीनां परिहारस्थानानां प्रायश्चित्तस्थानानाम् । 'अन्नयरं