________________
२६
व्यवहारसूत्रे
स्थानम् | 'एएसिं परिहारहाणाणं' एतेषां बहुश. पदघटितचातुर्मासिकादीनां परिहारस्थानानां मध्यात् 'अन्नयरं परिहारद्वाणं पडिसेवित्ता' अन्यतरत् यत् किमप्येकं परिहारस्थानं चातुर्मासिकाद्यन्यतमरूपं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् स्वकीयासेवितपापनिवारणाय आचार्यसमीपे प्रकाशयेत् । तत्र - 'अपठिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामन्तरेणालोचयतः 'ठवणिज्जं ठावइत्ता' स्थापनीयं स्थापयित्वा 'करणिज्जं वेयावडियं' वैयावृत्यं करणीयम् । 'ठाविवि पडिसेवित्ता' स्थापितेऽपि यदि पुनरपि प्रतिसेव्य तादृशप्रतिसेवनां कृत्वा गुरुसमक्षमुपस्थितो भवेत् तदा 'सेवि कसिणे' तदपि प्रतिसेवितं कृत्स्नमेव संपूर्णमपि अपराधजातम् 'तत्थेव आरुहियव्वे सिया तत्रैव' पूर्वसंपादितापराधे षाण्मासिकादावेवारोपयितव्यम् आरोपणीयं स्यात् । तादृशारोपणे चत्वारो भगा भवन्ति तानेव दर्शयति- 'पुव्वं पडिसेवियं पुत्रं आलोइयं' पूर्व प्रतिसेवितं पूर्वमालोचितम् १, 'पुव्वं पडिसेवियं पच्छा आलोइयं ' पूर्वं प्रतिसेवितं पश्चादालोचितम् २ | 'पच्छा पडिसेवियं पुवं आलोइयं' पश्चात्प्रतिसेवितं पूर्वमालोचितम् ३ | 'पच्छा पडिसेवियं पच्छा आलोइयं' पश्चात्प्रतिसेवितं पश्चादालोचितम् ४ । तत्राऽपि - 'अपलिउंचिए अपलिउंचिय' अप्रतिकुञ्चिते अप्रतिकुञ्चितम् यदाऽपराधानापन्नः आलोचनाऽभिमुखः तदैव कश्चित् सकल्पितवान्, यथा 'सर्वेऽपि अपराधाः मया आलोचनीयाः' एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोचनावेलायामपि अप्रतिकुंञ्चितमेवालोचयति १ । 'अपलिउँचिए पलिउंचियं' अप्रतिकुचिते प्रतिकुचितम्, पूर्वसंकल्पकाले अप्रतिकुञ्चितमालोचितम्, आलोचना काले तु प्रतिकुञ्चितमालोचयतीति २ । 'पलिउंचिए अपलिउंचियं' प्रतिकुञ्चितेऽप्रतिकुञ्चितं पूर्वसङ्कल्पकाले केनाऽपि प्रतिकुञ्चितं यथा - मया सर्वेऽपराधा नाऽऽलोचनीयाः, पूर्वसङ्कल्पकाले प्रतिकुञ्चिते, आलोचनायां भावपरावृत्ते. सर्वमप्यप्रतिकुञ्चितमालोचयतीति ३ । 'पलिउंचिए पलिउंचियं' प्रतिकुञ्चिते प्रतिकुञ्चितम् पूर्वसंकल्पकाले प्रतिकुञ्चिते, आलोचनाकालेsपि प्रतिकुञ्चितमेवालोचयतीति ४ | अपलिउंचिए अपलिउंचियं आलोएमाणस्स अप्रतिकुञ्चितेप्रतिकुञ्चितमालोचयत' 'सममेयं सकयं साहणिय' सर्वमेतत् स्वकृतं सहृत्य, सर्वमेतत् यद्व्यदापन्नमपरावजातं, यदि वा कथमपि प्रतिकुञ्चना कृता स्यात् ततः प्रतिकुञ्चनानिष्पन्नमपराजात सकलमेतत् स्वकृतमपराधकारिणा कृतं सम्पादितं सर्वमपराधजातं संहृत्यैकत्र मेलयित्वा यदि सचयितं प्रायश्चित्तस्थानम आपन्न. तत पाण्मासिकं प्रायश्चित्तं दद्यात् । यत्पुनः पण्मासातिरिक्तं तत्सर्वं परित्यजेत् । अथ मासादिक प्रायश्चित्तमापन्न. ततः तदेव मासादिकं दातव्यमिति । जे 'एयाए पट्टणाए पट्टविए' यः कचित्साधुः साध्वी वा एतया यनंतर पूर्वकथितया प्रस्थापनया प्रस्थापित प्रायश्चित्त करणे प्रवर्त्तितः 'निव्विसमाणे' निर्विगमानः प्रायश्चित्तमुपय निमग्न 'पडि सेव' प्रमादतो विपयकपायादिभिर्वा पुनः पापं
,