________________
निभात्यासधूरी उ० ६ सू० १५-१९ कल्पस्य कौकुचिकादिषट्परिमन्थुवर्णनम् १५३ इटं यक्षाविष्टाम् व्यन्तरदेवपरिगृहीताम्, यद्वा उम्मायपत्त उन्मादप्राप्ताम्, तत्रोन्मादो नाम-रोगादिना चित्तानवस्थता तयुक्ताम्, उवसरगपत्तं उपसर्गप्राप्ताम्-देवमनुष्यतिर्यगादिकृतोपसर्गविशिष्टाम् णिग्गथि निम्रन्थीं श्रमणीम् निग्गंथे निम्रन्थः श्रमणः गिण्हमाणे गृह्णन् क्वचित्पतनादितः क्वचिदौषधादिपानार्थ वा अवलम्बमाणे वा अवलम्बमानो वा धारयन् वा 'णाइक्मइ नातिकामति तीर्थकराज्ञां नोल्लद्धयति ॥ सू० ११-१४ ॥
सूत्रम्--साहिगरण ॥ सू० १५ ॥ सपायच्छित्तं ॥ सू० १६ ॥ भत्तपाणपडियाइक्खियं ॥ सू०१७ ॥ अट्ठजायं निग्गंथि णिग्गंथे गिण्हमाणे वा अवलंबमाणे वा माइक्कमई ।। सू०१८॥
छाया-साधिकरणाम् ॥सू० १५॥ संप्रायश्चित्ताम् ॥ सू०-१६॥भक्तपानप्रत्यास्याताम् ॥ सू० १७॥ अर्थजातां निन्थीं निम्रन्थो गृहन् वा अवलम्बमानो वा नातिकामति ॥ सू० १८ ॥
चूर्णी- 'साहिगरण' इति । साधिकरणां, तत्राधिकरणं कलहः तेन मुतामिति साधिकरणाम्-कलहासतमानसाम , तथा सपायच्छित्तं सप्रायश्चित्तां प्रायश्चितेन युक्तामिति सप्रायश्चिताम् प्रायश्चित्तप्राप्तां-प्रायश्चित्तेन चलचित्तामित्यर्थः भत्तपाणपडियाइक्खियं भक्तपानप्रत्याख्याताम् , तत्र भक्तमोदनादिकं, पानं जलम्, ते प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता-ताम् गृहीतानशनवतामित्यर्थः, अट्ठजायं अर्थजाताम्-अर्थलुब्धाम् भूमिपतितं सुवर्णादिकं दृष्ट्वा तद् ग्रहीतुं नम्रीभूताम् , कुत्राप्यर्थराशिं दृष्ट्वा सञ्जातविकारेण चलचित्ताम् , यद्वा-अर्थाकुलं पतिपुत्रादिकं ज्ञात्वा तत्सहायनिमित्तं द्रव्योपार्जनाय संयमाच्चलितचित्ताम् , यद्वा शिष्यानिमित्तं द्रव्यलाभार्थं गन्तुकामाम , एतादृशीम् णिग्गंथि निग्रंथीं-श्रमणीम् गिण्हमाणे गृह्णन् उपदेशेन शरीरेण वा स्पृष्ट्वा निवारयन् अवलम्बमाणे वा अवलम्बमानो वा णिग्गंथे निर्ग्रन्थः-श्रमणः णाइक्कमई नातिकामति-तीर्थकरस्याज्ञां नोल्लघयतीति भावः ॥ सू० १५-१८॥
श्रमणीनां सामाचारीलक्षणं कल्पं दर्शयित्वा सप्रति कल्पस्य प्रतिबन्धकान् दर्शयितुमाह-'छ कप्पस्स' इत्यादि ।
सूत्रम्-छ कप्पस्स पलिमथू पन्नत्ता, तंजहा-कोकुइए संजमस्स पलिमंथू १, मोहरिए सच्चवयमस्स पलिसंधू २, तितिणिए एसणागोयस्स्स पलिमंथू ३, चक्खुलोलए