________________
૨૦
sriricis
स्थापनीयं स्थापयित्वा परिहारतपसो दानसमये आचार्यः पारिहारिकांय एतादृशं नियमं श्रावयति-यः खलु प्रतिसेवकः परिहारर्तपः प्रायश्वित्तस्थानं प्राप्तः तस्य परिहारनामकर्तपोदानांय सर्वेषां साधु-साध्वीजनानां परिज्ञानाय सकलगच्छसमक्षं निरुपसर्गप्रत्ययं निरुपसर्गनिमित्तं कायोत्सर्गः पूर्वं क्रियते । कायोत्सर्गकरणानंतरं आचार्यः प्रतिसेवकं प्रति वक्ति-अहं ते कल्पस्थितः, 'अयं साधुरनुपारिहारिकः ततः स्थापनीयं स्थापयित्वेति यत्नेन सहाचरणीयम् तत् स्थाप्यते इति स्थापनीयम् अग्रे वक्ष्यमाणमालापन परिवर्तनादि, तत् सकलगच्छसमक्षं स्थापयित्वा कल्पस्थितेनाSनुपारिहारिकेण च यथायोगमनुशिष्टयपालम्भोपग्रहरूपं वक्ष्यमाणं वैयावृत्यं करणीयम्, 'ठांविएवि पडिसेवित्ता' स्थापितेऽपि प्रतिसेव्य ताभ्यां क्रियमाणेऽपि वैयावृत्ये स्थापितेऽपि आलापनादौ कंदाचित् किमपि प्रतिसेव्य गुरोः समीपमुपागच्छेत् यथा भगवन् ! अहममुकं प्रायश्चित्तस्थानमापन्नः । अतः 'सेवि' तदपि 'कसिणं' कृत्स्नं परिहारतपसि क्रियमाणे 'तत्थेव ' तथैव परिहारतपसि एव 'आरुहेयव्वे सिया' आरोहयितव्यं - आरोपणीयं स्यात्, 'स्यादित्यव्ययमत्रावघारणे, तेनारोहयितव्यमेव, केवलं तत्कृत्स्नमारोपयितव्यमिति । अनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेंन वा । तस्य प्रतिसेवितस्य गुरुसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेव दर्शयितुमाह
-
'पुव्वं पडिसेवियं पुत्रं आलोइयं' पूर्व प्रतिसेवितं पूर्वमालोचिंतम् । अत्र पूर्वमित्यंत्र पदैकदेशे पदसमुदायोपचारात् पूर्वाऽऽनुपूर्येति ज्ञातव्यम् । ततश्चाऽयमर्थः - गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या लघुपञ्चकादिक्रमेण यत् प्रतिसेवितं तत् पूर्व पूर्वानुपूर्व्येति प्रतिसेवनानुक्रमेणाssलोचितमिति प्रथमो भङ्गः १ ।
द्वितीयभङ्गमाद - 'पुत्रं पडिसेवियं पच्छा आलोइयं' पूर्व प्रतिसेवितं पश्चादालोचितम्, पूर्व गुरुलघुपर्यालोचनया पूर्वाऽऽनुपूर्व्या मासलघुकादि प्रतिसेवितंम्, तदनन्तरं च अल्पप्रयोजनोत्पत्तौ गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम् । आलोचनासमये तु पश्चात् - पचानुपूर्व्या आलोचितं, पूर्व लघुपञ्चकांबालोचितं, पश्चात् लघुमासादिकमालोचितमिति द्वितीयो भङ्गः २ ।
तृतीयभङ्गमाह – 'पच्छा पडिसेवियं पुत्रं आलोइयं' पश्चात्प्रतिसेवितं पूर्वमालोचिंतम् । पश्चात् पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्वं गुरुमासादिकं प्रतिसेवितं पश्चाल्लघुपञ्चकादीति आलोचनासमये आनुपूर्व्या आलोचितम् पूर्वं लघुपञ्चकाद्यालोचितं पश्चात् गुरुमांसादीत्यर्थः ' इति तृतीयो भङ्गः ३ ।
अथ चतुर्थभङ्गमाह - 'पच्छा पडिसेवियं पच्छा आलोइयं' पश्चात्प्रतिसेवितं पश्चादालोचितं, पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितं यथाकथञ्चन प्रतिसेवित