________________
भाग्यम् उ० १ २०१७ प्रतिकुश्चनाऽप्रतिकुश्चनायां प्रायश्चित्तदानविधिः २१ मित्यर्थः पश्चात् पश्चानुपूर्त्या आलोचित प्रतिसेवनानुक्रमेणैवालोचितम् । अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽप्यालोचितमिति चतुर्थों भङ्गः ४।
अत्र प्रथमचतुर्थभङ्गौ अप्रतिकुञ्चनायाम् , द्वितीय-तृतीयभगौ प्रतिकुञ्चनायाम् , इति प्रतिकुञ्चनाऽप्रतिकुञ्चनाभ्यामियं चतुर्मगी भवति तामेवाह-'अपलिउंचिए अपलि चियं' इत्यादि ।
'अपलिउंचिए अपलिउंचियं' अप्रतिकुञ्चितेऽप्रतिकुञ्चितम् , यदा खलु अपराधान् प्राप्तः आलोचनाभिमुखस्तदा कश्चिदेव संकल्पितवान् यथा-ये केचन मयि अपराधास्ते सर्वेऽपि मंया आलोचनीयाः, एवं पूर्वसकल्पकाले अप्रतिकुञ्चिते आलोचनासमये अप्रतिकुञ्चितमेवं आलोचयतीति प्रथमो भङ्गः १॥ . द्वितीयभङ्गमाह-'अपलिउंचिए पलिउंचियं' अप्रतिकुञ्चिते प्रतिकुञ्चितम्, यथापूर्व संकल्पकाले अप्रतिकुश्चितं निष्कपटभावेनोपस्थितः, आलोचनाकाले तु प्रतिकुञ्चितं सकपटमालोचयति, इति द्वितोयो भनः २ ।
तृतीयभगमोह-'पलिउंचिए अपलिउंचिय' प्रतिकुंचिंते अप्रतिकुञ्चितं, पूर्व संकल्पकाले केनापि प्रतिकुञ्चितम् यथा-न मया सर्वे अपराधा आलोचनीयाः, एवं पूर्व संकल्पकाले प्रतिकञ्चिते मालोचनावेलायां भावपरावृत्तेः सर्वमपि अतिकुञ्चितं कपटरहितमालोचयतीतितृतीयो भङ्गः३।
अथ चतुर्थभङ्गमाई–'पलिउंचिए पलिउंचिय' प्रतिकुञ्चिते प्रतिकुंचिंतम् । पूर्व संकल्पकाले केनापि प्रतिसेवकेन प्रतिकुञ्चितम् यथा-मया न सर्वेऽपराधीः आलोचनीया ततः एवं संकल्पकाले प्रतिकुञ्चिते आलोचनावेलायामपि प्रतिकुञ्चितं संकपटमेवालोचयतीति चतुर्थों भडः ४।
तंत्र-'अपलिउंचिए 'अपलिउंचियं आलोएमाणस्स' अप्रतिकुञ्चिते 'अप्रतिकुञ्चितम् आलोचयतः । तत्राऽप्रतिकुञ्चितमालोचयतो वीप्सा साकल्येन व्याप्ता भवति, ततश्चाऽयमर्थः-निरवशेषमालोचयतः 'सव्वमेयं' सर्वमेतद् यदापन्नमपराधजातम् , अथवा कथमपि प्रतिकुंचना कृता स्यात् ततः प्रतिकुंचनानिष्पन्न, यच्च गुरुणा सह आलोचनाकाले समासनोच्चासननिष्पन्न, या चाऽऽलोचनाकाले 'असमाचारी, तन्निष्पन्नं च सकलमेतत् संकर्य स्वकृतं स्वयमात्मना अपराधकारिणा कृतम् 'साहणिय' संहृत्य एकत्र मेलयित्वा यदि . संचयितं प्रायश्चित्तस्थानमापन्नस्ततः पाण्मासिकं प्रायश्चित्तं दद्यात् । यत् पुनः पाण्मासिका. तिरिक्त तत्सर्वं झोषयेत् परित्यजेत् । अथ मासादिकं द्वैमासिकं त्रैमासिकं चातुर्मासिकं, पाश्च