SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ०१ सं० १७ परिहारस्थानसेविनः प्रायश्चित्तारोपणविधिः १९ न करोति पापम्" इति न्यायात् क्षुधाऽपि दोषोत्पत्तौ कारणं जायते ७ । रागद्वेषौ ८ । भयं-मनुष्यदेवतिर्यग्जन्यम् ९ । परनिमित्तसंजातम्-परोऽन्यो निमित्तं यत्र तत् परनिमित्तं, तेन संजातं समुत्पन्न, यं निमित्तीकृत्य पापं सेवते तत् १० । एतत् पूर्वोक्तं कारणजात कारणसमूहः कारणदशकमित्यर्थः दोषोत्पादे-दोषोत्पत्तौ ज्ञातव्यम् ॥१-२॥ एतानि दश कारणानि दोषोत्पत्तौ संभवन्तीति भावः ।। सू० १६॥ सूत्रम्-जे भिक्खू चाउम्मासियं वा, साइरेगचाउम्मासियं वा, पंचमासियं वा, साइरेगपंचमासियं वा, एएसि परिहारहाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स ठवणिज्ज ठावइत्ता करणिज्ज वेयावडियं, ठाविएवि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया, पुव्वं पडिसेवियं पुव्वं आलोइयं १, पुव्यं पडिसेवियं पच्छा आलोइयं २, पच्छा पडिसेवियं पुन्वं आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं ४। अपलिउंचिए अपलिउंचियं १, अपलिउचिए पलिउंचियं २, पलिउंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४ । अपलिउंचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए पट्ठवणाए पट्टविए निविसमाणे पडिसेवइ सेवि कसिणे तत्थेव आरुहियव्वे सिया ॥ सू० १७ ॥ छाया--यो भिक्षुश्चातुर्मासिकं वा, सातिरेकचातुर्मासिकं वा, पाञ्चमासिकं वा, सातिरेकपाञ्चमासिकं घा, पतेपां परिहारस्थानानाम् अन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत्, अप्रतिकुञ्च्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यम, स्थापितेऽपि प्रतिसेव्य सोऽपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् , पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, पश्चात् प्रतिसेवितं पूर्वमालोचितम् ३, पश्चात प्रतिसेवितं पश्चादालोचितम् ४ । अप्रतिकुञ्चिते अप्रतिकुञ्चितम् १, अप्रतिकुञ्चिते प्रतिकुञ्चितम् २, प्रतिकुञ्चिते अप्रतिकुञ्चितम् ३, प्रतिकुंचिते प्रतिकुञ्चितम । अप्रतिकश्चिते अप्रतिकुञ्चितम् आलोचयतः सर्वमेतत् स्वकृतं संहत्य यः एतया प्रस्थापनया प्रस्थापितः निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् ।। सू० १७॥ भाष्यम्-'जे भिक्खू इति ।जे भिक्खू' यः कश्चिद् भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा परिहारस्थानम् । 'साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा, पञ्चदिनाघधिक चातुर्मासिक परिहारस्थानम् , 'पंचमासियं वा' पाश्चमासिकं वा 'साइरेगपंचमासयं वा' सातिरेकपाञ्चमासिकं वा, 'एएर्सि' एतेषां पाञ्चमासिकान्तानाम् 'परिहारहाणाणं' परिहारस्थानानाम् 'अन्नयरं' अन्यतरत् , एतेषु यत्किमपि एकम् 'परिहारट्ठाणं पडिसेवित्ता' परिहारस्थानं प्रायश्चित्तस्थानं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् आलोचनां कुर्यात् , तत्र 'अपलिउँचिय आलोएमाणस्स अप्रतिकुञ्च्य मायामकृत्वा निष्कपटभावेन आलोचयतः 'ठवणिज्ज ठावडत्ता'
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy