________________
चूर्णिभाष्यावचूरी उ० ६ सूं० २ कल्पस्य षट्प्रस्तारेषु प्रायश्चित्तविधिः १४७ साधुना गुरवे कथितं यदमुकेन साधुना मण्डूको मारितः, तदा आचार्यस्तं साधुं पृच्छेत् भोस्त्वया मण्डूको मारितः किम् , स यदि वदति न मारितः, अविराधने तेन सम्यक् प्रमाणमुपस्थापनीयम् अन्यथा स प्रायश्चित्तभागी भवत्येव । अथवा येनाक्षेपः कृतः स यदि प्रमाणेन स्वकीयमारोपणं न प्रमाणयितुं शक्नोति तदा स एव तत्स्थानप्राप्तो भवति, प्राणातिपाते यत् प्रायश्चित्तं तस्य प्रायश्चित्तस्य भागी स एवाभ्याख्यानकारको भवति । यः कोपि यस्य कस्याप्युपरि आरोपणं करोति प्राणातिपातादेः स यदि प्रमाणेन स्वकीयमभ्याख्यानं सिद्धं करोति तदा यस्यो परि आरोपणं कृतं स प्रायश्चित्तभागी भवति । यदि कदाचित् स स्वकृतमारोपणं प्रमाणयितुं न शक्तो भवति तदा अभ्याख्यानकारकस्यैव तादृशं प्रायश्चित्तं भवतीति प्राणातिपातवादविषयः प्रथमः प्रायश्चित्तप्रस्तारः । एवं शुनक-सर्प-मूषक–दृष्टान्ता भावनीयाः १ ।
मृषावादप्रस्तारो यथा-कस्मिंश्चिद् गृहस्थगृहेऽवमरात्निको रत्नाधिकेन सह भिक्षार्थं गतः सन् भोजनकालाभावेन प्रतिषिद्धः प्रत्यावृत्तः। पश्चान्मुहूर्त्तान्तरे रत्नाधिकेन कथितम्-इदानी भोजनकालः संभाव्यतेऽतो व्रजामो भिक्षार्थम् , अवमेन कथितम् -प्रतिषिद्धोऽहं न व्रजामि । ततो रत्नाधिकेन गत्वा भिक्षा समानीता । सोऽवमः आचार्यायेदमालोचयति यथा-भदन्त । अयं दीनकरुणवचनैर्याचते प्रतिषिद्धोऽपि गृहस्थगृहं प्रविशति, प्रविष्टश्च मुखप्रियाणि योगचिकित्सानिमित्तानि गृहस्थेभ्यो जल्पति, इत्येवमभ्याख्यानदानं मृषावादरूपो द्वितीयः प्रायश्चित्तप्रस्तारः २।
अदत्तादानप्रस्तारो यथा-एकत्र गृहेऽवमरानिकेन यावद् भिक्षा गृहीता तावद् एको रत्नाधिकः कुत्रतो मोदकान् लब्ध्वाऽन्यस्मै अवमाय दत्तवान्, तदितरोऽवमस्तान मोदकान् दृष्ट्वा प्रत्यावृत्त्य गुरुसमक्षं भणति-आलोचय त्वया रत्नाधिकेनादत्ता मोदका गृहीताः, इत्यभ्याख्यानदानमदत्तादानरूपस्तृतीयः प्रायश्चित्तप्रस्तारः ३ ।
अविरतिकावादप्रस्तारो यथा-कश्चिद् अवमरानिको दशविध च समाचार्या स्खलितो रत्नाधिकेन 'हे दुष्ट शिष्य | स्खलितोऽसि' इत्यादिवाक्यतस्तर्जित आलोचयति-अय 'रत्नाधिकोऽह'-मिति गर्वेण मामस्खलितमपि तर्जेयति कषायोदयतो मां प्रेरयतीत्यवसरं लब्ध्वा तथा करोमि येनायं लघुको भवतीति । ततोऽन्यदा द्वावपि भिक्षार्थं गतौ, भिक्षामानीय प्रत्यावृत्तौ मार्गे उष्णकालादिकारणवशाद् बुभुक्षितौ तृषितौ तत्रैवं चिन्तितवन्तौ-अत्र परिवाजिकादेवकुले कुटने लतावृक्षाच्छादितस्थाने प्रथमालिकां-पूर्व किश्चिद् भोजन-कृत्वा पानीयं पास्यावः, इति चिन्तयित्वा सुखं स्थितो, अत्रान्तरेऽवमरात्निकेन एका परिवाजिका तदभिमुखमागच्छन्ती दृष्टा, लब्धोऽवसर इदानीमिति चिन्तयित्वा वदति-कुरुत भदन्ताः ? भवन्तः भोजनपानम् , अहं तु उच्चारार्थ गमिष्यामीति । एवमुक्त्वा शीघ्रमाचार्यसमीपे समागत्य मैथनेऽभ्याख्यातुं भणति-भदन्त । ज्येष्टाऽऽर्येणाध सद्य इदानी परिवाजिकागृहे प्रतिसेवितमकार्य