________________
૮
वृहत्कल्पसूत्रे
मैथुनलक्षणमित्यभ्याख्यानदानमविरतिकावादलक्षणश्चतुर्थः प्रायश्चित्तप्रस्तारः ४ ।
अपुरुषवादप्रस्तारो यथा - कोऽपि साधू रत्नाधिकेन दुष्प्रत्युपेक्षणादिस्खलने तर्जितछिद्रान्वेषी भिक्षातो निवृत्त्य रत्नाधिकमुद्दिश्याचार्य भणति-नूनमेष रत्नाधिकोऽपुरुपो नपुं. सको वर्तते, आचार्येण प्रोक्तम् त्वया कथं ज्ञातम् ! तेनोक्तम्-ममैतस्य निजकैः कथितं यदयं नपुंसकः प्रव्राजितो भवतेति । ततो मयाऽपि ज्ञातम्-हसितस्थितचक्रमितशरीरभाषादिलक्षणैः 'अयं नपुंसकः' इति । एवमभ्याख्यानदानं पञ्चमोऽपुरुषवादरूपः प्रायश्चित्तप्रस्तारः ५ ।
दासवादप्रस्तारो यथा-पूर्ववदेव कोऽपि साधू रत्नाधिकमुदिश्याचार्य प्रति भणतिअयं रत्नाधिको दासोऽस्ति । आचार्यैरुक्तम् -कथं जानासि ?, स प्राह-निजकर्मम कथित मयाऽपि ज्ञातं च यदसौ शीघ्रकोपशीलः उचितानुचितविवेकविकलां भाषां भापते, इत्यादिलक्षणैः शरीरसंस्थानादिनाऽपि चास्य दासत्वमनुमीयते, इत्याद्यभ्याख्यानदानं दासवादरूपः षष्ठः प्रायश्चित्तप्रस्तारः ६ । एते पट् कल्पस्य प्रस्ताराः प्रायश्चित्तरचनाविशेषाः प्रतिपादिता इति ६ ।
अथ सूत्रव्याख्या-'इच्चेते' इत्यादि, इच्वेते इत्येतान् पूर्वोक्तान् छ कप्पस्स पत्यारे घट कल्पस्य प्रस्तारान् पत्थारेत्ता प्रस्तीर्य यदि स प्रस्तारकोऽभ्याख्यानदायकः साधुः स्वदत्तमभ्याख्यानम् सम्म अपडिपूरेमाणे सम्यक् यथार्थतया अप्रतिपयन् तहाणपत्ते सिया तत्स्थाप्राप्तः स्यात्, तत् प्राणातिपातादिकत्र्तयेत्स्थानं तत्स्थानं प्रायश्चित्तस्थान प्राप्तो भवति । अयं भावः-यत् प्राणातिपातादिरूपेणाभ्याख्यानमन्योपरि येन दत्तं स तस्यासद्मूततया स्वारोपिताभ्याख्यानस्य सत्यतया समर्थनं कर्तुं न शक्नोति तदा तस्यैव अभ्याख्यान दायकस्यैव प्राणातिपातादिकरिव प्रायश्चित्तस्थानं प्राप्तं भवति, आचार्येण तस्याऽभ्याख्यानदायकस्यैव प्राणातिपातादिपापप्रायश्चित्तं दातव्यमिति । यदि अभ्याख्यानदायकोऽभ्याख्यानदानविषये विवदमानो भवेत्तदा तस्य प्रतिविवादमुत्तरोत्तरं प्रायश्चित्तवृद्धिः कर्तव्या, तथाहिप्रथमं मार्गे रत्नाधिकं-'भवता दर्दुरो मारितः' इति कथयित्वा ततो निवृत्त्याचार्यसमीप तत्कथनार्थ व्रजति तदा अभ्याख्यानदातृत्वेन तस्याभ्याख्यानदायकस्य मासलघुप्रायश्चित्तं भवति, ततः परं भणने मासगुरु । तस्य भणने यदि आचार्यों यस्योपर्यंभ्याख्यानं प्राप्तं तं साधुमालय पृच्छतिकिं त्वया द१रो मारित. ? स कथयति-न मारितः, एवं तेन कथिते तस्याभ्याख्यानदायकस्य चतुर्लघुप्रायश्चित्तं भवति । तेन भूय. प्रच्छने प्रेरित आचार्यस्तं पुनः पृच्छति तदाऽपि पूर्ववदेव 'न मारितः' इति कथने तस्याभ्याख्यानदातुश्चतुर्गुरु । पुनरवमो भणति यदि न विश्वासस्तदा तत्रोपस्थिता गृहस्थाः प्रष्टव्या., साधवो गृहस्थान् प्रष्टुं गच्छन्ति, पृष्टे सति षड्लघु, पृष्टा गृहस्था भणन्ति-नास्माभिरयं द१रमारणं कुर्वन् दृष्टः, इति तै. कथने षड्गुरु, साधवः समागताः कथयन्ति नापद्रावितोऽनेन द१र इति तदा छेदः ।