________________
पृहत्कल्पसूत्रे
व्यापाराद्यारम्भसमारम्भवचनं वा ५ । विउसवियं वा पुणो उदीरित्तए व्युपशमितम्-उपशमितक्लेशादिक पुनरुदीरयितुं यद् वचनं तद् , यथा-स एव त्वं यः पूर्व मामपमानितवान् , इत्यादि कथनम् ६ । एतानि पडलीकादिवचनानि न वक्तव्यानीति ।। सू० १ ॥
प्रथममत्रे शोधि' कथिता, द्वितीयसूत्रे तु शोधः प्रायश्चित्तविधिमाह-कप्पस्स इत्यादि ।
सूत्रम्- कप्पस्स छ पत्थारा पन्नत्ता, तं जहा-पाणाइचायस्स वायं वयमाणे, मुसाबायस्स वायं वयमाणे , अदिन्नादाणस्स वायं वयमाणे, अविरइयावाय वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे, इच्चेते छ कप्पस्स पत्यारे पत्यारेत्ता सम्म अपडिपूरेमाणे तहाणपत्ते सिया ॥ मू० २ ॥
छायाकल्पस्य पद प्रस्ताराः प्रशप्ताः तद्यथा-प्राणातिपातस्य वादं वदन् , मृषावादस्य वादं वदन् , अदत्तादानस्य वादं वदन्, अविरतिकावाद वदन, अपुरुषवादं वदन्, दासवाद वदन् , इत्येतान् पट् कल्पस्य प्रस्तारान् प्रस्तीर्य अप्रतिपूरयन् तत्स्थानप्राप्तः स्यात् ।। सू०२॥
चूर्णी-'कप्पस्स' इति । कल्पस्य, तत्र कल्पो नाम साधूनामाचारः, तस्य तत्सम्बन्धिनां विशुद्धिकारणत्वात् छ पत्यारा पन्नत्ता पट्-पटसंख्यकाः प्रस्ताराः प्रायश्चितप्रकाराधिकारिणः प्रज्ञप्ता कथिताः, तानेव षड् भेदान् दर्शयितुमाह-तंजहे- त्यादि, तंजहा, तद्यथा पाणाइवायरस वायं वयमाणे प्राणातिपातस्य जीवविराधनलक्षणस्य वादमाक्षेपवचनं वदन् षड्जीवनिकायविराधनवाचं वदन् साधुः प्रायश्चित्तस्य प्रस्तारोऽधिकारी कथ्यते इति प्रथमः १ । मुसावायस्स वायं वयमाणे मृपावादस्य वादं वदन् द्वितीयो भेदः २। अदिन्नादाणस्स वयं वयमाणे अदत्तादानस्य वादं वदन् तृतीयः ३ | अविरइयावयं वयमाणे अविरतिकावादं वदन् , तत्र न विद्यते विरतिर्यस्याः सा अविरतिका-कुलटा स्त्री, तस्या वादं वाचं वा वदन् मैथुनाऽऽक्षेपं कुर्वन्नित्यर्थः, इति चतुर्थः ४ । अपुरिसवायं वयमाणे अपुरुषवादं वदन्, तत्र न पुरुषः अपुरुषः नपुंसकस्तस्य वादम् 'मयं नपुंसक.' इति वाचं वदन् पञ्चमः ५ । दासवायं वयमाणे दासवादं वदन्, यो न दासस्तम् 'मयं दासः' इति वदन् षष्ठो भेद. ६ । इच्चे ते छ कप्पस्स इत्येतान् पट् कल्पस्य इति एवं प्रकारान् एतान् पूर्वोक्तान् पसंख्यकान् प्राणातिपाताद्याक्षेपलक्षणान् कल्पस्य साध्वाचारस्य पत्यारे पत्यारेत्ता प्रस्तारान् प्रायश्चित्तस्य प्रकारान् प्रस्तीय सम्मं अपडिपूरेमाणे सम्यगू अप्रतिपूयन्-अप्रमाणयन् अभ्याख्यानकारक. साधुः सम्यक् अप्रतिप्रयन् आक्षेपार्थस्यासद्भूततया अभ्याख्यानस्य समर्थन कर्तुमशक्त. सन् ताणपत्ते सिया तत्स्थानप्राप्तः प्रायश्चित्तस्थानप्राप्तः प्रायश्चित्तभागी स्यात् ।
अत्र दर्दुर-शुनक-सर्प-मूषक-दृष्टान्ताः सन्ति । तत्र दर्दुरदृष्टान्तो यथा-कस्यचित् रत्नाधिकस्य साधोर्भिक्षाटनसमये मृतमण्डुककलेवरोपरि अकस्मात्पादः पतितः, सहागतेनाऽन्येन