________________
अथ षष्ठोद्देशकः व्याख्यातः पञ्चमोद्देशकः, साम्प्रतं षष्ठो देशको व्याख्यायते, तत्र पूर्वगतपञ्चमोद्देशकस्यान्तिमसूत्रेण सहास्य षष्ठोद्देशकप्रथमसूत्रस्य कः सम्बन्ध ? इत्यत्राह भाष्यकार:-'भत्तग्गहण' इत्यादि । भाष्यम्-भत्तग्गहणं पुव्वं, कहियं तस्स य अलाभसमयम्मि ।
तत्थावयणं भासइ, तस्स णिसेहोऽत्थ संबंधो ॥१॥ छाया-भक्तग्रहणं पूर्व कथितं, तस्य चालाभसमये ।
तत्राऽवचनं भाषते, तस्य निषेधोऽत्र सम्बन्धः॥१॥ अवचूरी- भत्तग्गहणं' इति । पूर्वं पञ्चमोद्देशकस्यान्तिमसूत्रे भक्तग्रहणं कथितम् , तस्य भक्तस्य च अलाभसमये साधुस्तत्र कदाचिद् अवचनं भाषते इति तस्यावचनस्यात्र षष्ठोद्देशकस्य प्रथमसूत्र निषेधः प्रतिपादितः, एष एवात्र अस्मिन् षष्ठोद्देशके सम्बन्धः ॥१॥ इत्यनेन सम्बन्धेनायातस्यास्य षष्ठोद्देशकस्येदमादिमं सूत्रम् - नो कप्पई इत्यादि ।
सूत्रम्-नो कप्पई णिग्गंथाण वा णिग्गंथीण वा इमाई छ अवयणाई वदित्तए, तं जहा-अलियवयणे, हीलियवयणे , खिंसियवयणे, फरुसवयणे, गारस्थियवयणे, विउसवियं वा पुणो उदीरित्तए ॥ सू० १॥
__ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि षट् अवचनानि वदितुम् , तद्यथा-अलीकवचम् , हीलितवचनम्, खिसितवचनम्, परुपवचनम् , गार्हस्थ्यवचनम् , व्युपशमितं वा पुनरुदीरितुम् ॥ सू०१ ॥
चूर्णी-'नो कप्पइ' इति । नो कल्पते-न युज्यते णिग्गंथाण वा निर्ग्रन्थानां वा णिग्गंथीण वा निर्ग्रन्थीनां श्रमणीनां वा इमाइं इमानि-वक्ष्यमाणानि छ षट्-षट्संख्यकानि अवयणाई अवचनानि, तत्र वक्तुं योर्य वचनम् सद्वचनमित्यर्थ न वचनमित्यवचनं वदितुमयोग्यमसद्वचनादिकम् । कानि तान्यवचनानि ? तानि दर्शयितुमाह-तंजहा' तद्यथा-अलियवयणे अलीकवचनं असत्यभाषणं तथाहि- असत्यवचनोच्चारण साधुभिः साध्वीभिर्वा न कर्तव्यमिति प्रथमम् १ । हीलियवयणे हीलितवचनम् , यस्मिन् वचने उच्चारिते साधूनां गृहस्थानां वा अवहेलनं भवति, तथाहि साधुविषये हीलितवचनं यथा-साधुः सन्नपि त्वं न सम्यक्तया चारित्रं पालयसि, यद्वा कस्त्व गणिनामाऽसि-गणी भवन्नपि न त्वं किमपि जानासि, केन त्वं गणिपदे स्थापित ? इत्यादिकथनम् , तथा गृहस्थविषये हीलितवचनं जन्मजात्यायुद्घाटनपूर्वकमपमाननं, यथा-त्वं जन्मकुलजात्यादिहीनोऽसि इत्यादि कथनम् २। खिसियवयणे खिसितवचनम्-जन्मकर्माबद्घाटनपूर्वकं सरोषवचनम् , अथवा रे मूर्ख ! रे दास ! इत्यादि श्रुतिकटुवचनम् ३ । फरुसवयणे परुषवचनम्-कर्कशवचनम् रूक्षवचनमित्यर्थः, रे नीच । रे अधम ! इत्यादि ४ । गारत्थियवयणे गार्हस्थ्यवचनम्-गृहस्थस्य भावो गार्हस्थ्यं तत्सम्बन्धि तद्वचनसदृश वचन गार्हस्थ्यवचनम्, हे तात ! हे पुत्र ! हे मातुल ! हे भागिनेय ! इत्यादि भाषणम् ,