________________
चूर्णिभाष्यावचूरी उ० ५ सू० २३-३३
निर्ग्रन्थ्या आसनमर्यादा १३३ पूर्व निर्ग्रन्थीनां प्रामादेर्बहिरातापनाग्रहणं निषिद्धम्, सम्प्रति तासामेव आसनाभिग्रहविशेषाणां निषेधं प्रतिपादयितुमेकादशसूत्रीमाह-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथीए ठाणायइयाए होत्तए । सू०२३॥ नो कप्पइ निग्गंथीए पडिमठाइयाए होत्तए । सू०२४ ॥ नो कप्पइ निग्गंथीए णिसज्जियाए होत्तए॥ सू०२५।। नो कप्पइ निग्गंथीए उक्कुडुगासणियाए (ठाणुक्कुडियाए) होत्तए । सू०२६ ॥ नो कप्पइ निग्गंथीए वीरासणियाए होत्तए । सू०२७ ॥ नो कप्पइ निग्गंथीए दंडासणियाए होत्तए ।। सू०२८॥ नो कप्पइ निग्गंथीए लगंडासणियाए होत्तए ॥ सू०२९ ॥ नो कप्पइ निग्गंथीए एगपासियाए होत्तए ॥ सू०३०॥ नो कप्पइ निग्गंथीए उत्ताणासणियाए होत्तए ॥ सू०३१ ॥ नो कप्पइ निग्गंथीए ओमंथियाए होत्तए । सू०३२ ॥ नो कप्पइ निग्गंथीए अंवखुज्जियाए होत्तए ॥ सू० ३३ ॥
छाया - नो कल्पते निर्ग्रन्थ्याः स्थानायतिकाया भवितुम् ॥ सू०२३ ॥ नो कल्पते निर्ग्रन्थ्याः प्रतिमास्थायिन्या भवितुम् ॥ सू.२१॥ नो कल्पने निर्ग्रन्थ्या नैषधिकाया भवितुम् ॥ सू०१५ ॥ नो कल्पते निर्ग्रन्थ्याः उत्कुटुकासनिकायाः (स्थानोत्कुटुकिकायाः) भवितुम् ॥ सू० १६॥ नो कल्पते निन्थ्या वीरासनिकाया भवितुम् ॥ सू० १७ ॥ नो कल्पते निन्थ्या दण्डासनिकाया भवितुम् ॥ सू०१८ ॥ नो कल्पते निर्ग्रन्थ्या लकुटासभषितुम् ॥सू१९॥ नो कल्पते निर्ग्रन्ध्या एकपार्श्विकाया भवितुम् ॥सू३०॥ नो कल्पते निग्रन्थ्या उत्तानासनिकाया भवितुम् ।। सू०३१ ।। नो कल्पते निग्रंन्थ्या अवामुख्या भवितुम् ॥ ३१ ॥ नो कल्पते निर्ऋत्थ्या आम्रकुब्जिकाया भवितुम् ॥ सू० ३३॥
चूर्णी-'नो कप्पइ'इति । नो कल्पते निर्ग्रन्थ्याः स्थानायतिकायाः ऊर्ध्वस्थानेन आयता स्थानायता सैव स्थानायतिका तस्याः एतादृश्या भवितुम् अवस्थातुम् । 'अमुकसमयपर्यन्तम् कायोत्सर्ग करिष्यामि' इति बुध्या, पूर्वोक्ताकृत्या कायोत्सर्ग कर्तुम् न कल्पते इति भावः ॥ सू०२३ ॥ सम्प्रति प्रतिमाविषयकं सत्रमाह-'नो कप्पइ' इत्यादि । एवं नो कल्पते निर्ग्रन्थ्याः प्रतिमा एकमासिक्यादिरूपा द्वादश, तासु तिष्ठतीति प्रतिमास्थायिनी द्वादशप्रतिमारूपाभिग्रहधारीणी, तस्या भवितुं न कल्पते । मासिक्यादिप्रतिमावहनं निर्ग्रन्थोनां नोचितम्, तासां धृतिबलादिराहित्येन संयमयात्रानिर्वाहाऽसद्भावात् ॥ सू० २४ ॥ एवं नैषधिकायाः निषद्या उपवेशनरूपा उपवेशनप्रकारः, सा विद्यते यस्याः सा नैषधी, सैव नैषधिका, तस्याः निषद्यारूपं स्थानमाश्रित्य स्थिताया भवितुं निग्रन्ध्या नो कल्पते । निषद्या च पञ्चविधा भवति, तथाहि-समपादपुता १, गोनिषधिका २, हस्तिशुण्डिका ३, पर्यड्का ४, अर्द्धपर्यड्डा ५, चेति । तत्र समपादपुता यत्रोपविष्टायाः समौ पादौ पुतौ च स्पृशतः समपादपुता १, यस्यां गौरिवोपवेशनं भवति सा- गोनिषधिका २, यस्यां पुताभ्यामुपविश्य एक पादं 'हस्तिशुण्डमिवोत्थाप्य उपविश्यते