________________
वृहत्कल्पसूत्र सा हस्तिशुण्डिका ३, पर्यका-यत्र पर्यङ्काकृत्या उपविश्यते सा पर्यङ्का निपद्या ४, अर्द्धपर्यङ्का यस्यामेकं जानुं समुत्थाप्य उपविश्यते सा अर्द्धपल्यङ्का निषद्या प्रोच्यते ५ ।।
___ एवंविधया पञ्चप्रकारया निषद्यया चरतीति नैषधिको तस्याः, एतादृशनिषदनस्थानमाश्रित्य उपवेशनं साध्वीनां नोचितमिति ॥ सू० २५ ॥ एवम् उत्कुटुकासनिकायाः उत्कुटुकंभूमिस्थापितचरणतलद्वयरूपं 'उकडु' इति भाषाप्रसिद्धमासनम् उत्कुटुकासनं, तद् विद्यते यस्याः सा उत्कुटुकासनिक', तस्या उत्कुटुकासनेन समुपविष्टाया निम्रन्थ्या भवितुं नो कल्पते, उस्कुटुकासनेन निर्ग्रन्ध्या नोपवेष्टव्यम् ॥ सु० २६ ॥ एवं वीरासनिकाया भवितुं नो कल्पते, वीरासनेन उपवेशनं साध्वीनां नोचित्तम् । वीरासनं नाम सिंहासने उपविष्टो भूमौ न्यस्तपादस्तिष्ठति, तदवस्थायां तत् सिंहासनं तदधोभागात् निस्सार्यते तदापि तदाकारेणैव अवस्थानं यत्र भवति तदासनं वीरासनं प्रोच्यते, तद् यस्या अस्तीति वीरासनिका, तस्या वीरासनिकाया भवितुं निर्ग्रन्ध्या नो कल्पते ॥ सू० २७ ॥ एव दण्डासनिकाया निग्रन्ध्या भवितुं नो कल्पते । दण्डः यष्टिः, तद् दीर्घमायतं पादप्रसारणेन भवति तद् आसनं दण्डासनं, तद् यस्या अस्ति सा दण्डासनिका तस्या दण्डासनिकाया भवितुम् अवस्थातुं निग्रन्ध्या न कल्पते, ।। सू० २८ ॥ एवं लकुटासनिकाया, लकुटं कुजकाष्ठं तद्वत् कुजतया मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेन शयनम् , अथवा कुब्जीभूय शयनम् , एतादृशमासन यस्याः सा लकुटासनिका, तस्या लकुटासनिकाया निर्ग्रन्ध्या भवितुं नो कल्पते ॥ सू० २९ ॥ एवं 'ओमंथियाए इति अवाड्मुख्याः अवाड् अघो मुखं यस्याः सा अवाङ्मुखी तस्या अधोमुखीभूताया भवितुम् अवस्थातुं निर्ग्रन्ध्या नो कल्पते ॥ सू० ३० ॥ एवम् एकपार्श्विकायाः-एकपार्श्वेन शायिन्याः तथाविधाभिग्रहविशेषेण शयितायाः साध्व्या भवितुं नो कल्पते ॥ सू० ३१॥ एवम् उत्तानासनिकायाः, उत्तानम् ऊर्ध्वमुखीभूय शयनम्, एतादृशमासनं यस्या सा उत्तानासनिका, तस्या उत्तानासनिकाया भवितुं साव्या नो कल्पते ॥ सू० ३२ ॥ एवम् आम्रकुजिकाया-आम्राकारेण कुब्जीमूय स्थिताया निर्घन्ध्या भवितुं नो कल्पते, यत्र मस्तकपादद्वयेन भूमि स्पृशति मध्यशरीरमूर्ध्व क्रियते तदासनम् आम्रकुब्जासनं प्रोच्यते, तदासनेन स्थातु साध्व्या नोचितमिति भावः, प्रागुक्तयुक्तः । एते एकादशसूत्रोकाः सर्वेऽपि अभिग्रहविशेषा निम्रन्थीनां प्रतिषिद्धाः ॥ सू० ३३ ॥
पूर्व निर्ग्रन्थीनां ब्रह्मचर्यव्रतरक्षणार्थमकल्प्या अभिग्रहविशेषाः प्रतिपादिताः, सम्प्रति तद्क्षणार्थमेव निर्ग्रन्थीनाम् आकुञ्चनपट्टादयो दारुकदण्डकान्ता न कल्पन्ते, इति प्रतिपादयितुं प्रथम तासाम् आकुञ्चनपट्टकं प्रतिपेधितुमाह-'नो कप्पइ' इत्यादि।
सूत्रम्-नो कप्पइ निगंथीणं आकुंचणपगंधारित्तए वा परिहरित्तए वा। सू०३४॥