________________
૨
वृहत्कल्पसूत्रे
आतापयितुम्, कल्पते तस्या उपाश्रयस्य अन्तर्वगडायां संघाटी प्रतिवद्धायाः प्रलम्बितबाहायाः समतलपादिकायाः स्थित्वा आतापनया आतापयितुम् ॥ सू० २२ ॥
चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्मन्ध्याः किमित्याह - ग्रामादेर्बहिः प्रदेशे वाहू ऊर्ध्वकृत्य सूर्याभिमुखीभूत्वा एकपादेन ऊर्ध्वभूताया आतापनामातापयितुं न कल्पते इति निषेघसूत्रस्य संक्षेपार्थः । कथं कल्पते । इति विधिसूत्रसंक्षेपार्थो यथा - ग्रामादेर्मध्ये उपाश्रयभूमेरभ्यन्तरे संघाट्यादिना समुचितावृतशरीरायाः बाहू अधोभागे प्रलम्ब्य समतल भूमिस्थितपाद - द्वयेन ऊर्ध्वस्थानेन स्थिताया आतापनामातापयितुं कल्पते, इति निषेधविधिगर्भितस्य सूत्रस्य संक्षेपार्थः। विस्तरार्थो यथा - नो कल्पते न युज्यते निर्ग्रन्ध्याः श्रमण्याः ग्रामस्य वा बाहिरि - त्यनेनान्वयः । एवं नगरस्य वा खेटस्य वा कर्बटस्य वा पत्तनस्य वा मडम्वस्य वा आकरस्य वा द्रोणमुखस्य वा आश्रमस्य वा संनिवेशस्य वा, तत्र - ग्रामः वृतिवेष्टितजन निवासरूपः, तस्य, माकरःसुवर्णरत्नाद्युत्पत्तिस्थानम् तस्य, नगरम् - अष्टादशकरवर्जितम् तस्य खेटं - धूलिप्राकारपरिक्षिप्तम् तस्य, कर्वटं - कुत्सितनगरम् तस्य, मडम्बं - सार्धक्रोशद्वयान्तर्ग्रामान्तररहितम् तस्य, द्रोणमुखंजलस्थलपथोपेतो जननिवासः तस्य, पत्तनं समस्तवस्तुप्राप्तिस्थानम् तस्य, तद् द्विविधं भवति-जलपत्तन स्थलपत्तनं चेति, नौभिर्यत्र गम्यते तज्जलपत्तनं, यत्र च शकटादिभिर्गम्यते तत्स्थलपत्तनम्। यद्वा शकटादिभिर्नैभिर्वा यद् गम्यं तत् पत्तनं, यत् केवलं नौभिरेव गम्यं तत् पट्टनम् इति बोध्यम् । एषां ग्रामादीनां बहिः ऊर्ध्वम् उपरिभागे आकाशे बाहू भुजौ प्रगृह्य - प्रगृह्य प्रकर्षेण कृत्वा सूराभिमुख्याः सूर्याभिमुखं स्थितायाः एकपादिकायाः ऊर्ध्वोत्थापितैकचरणायाः, एकं पादमाकुञ्चितं कृत्वा उत्थाप्य द्वितीयं पादं भूमौ संस्थाप्य एतादृशरूपेण स्थित्वा ऊर्ध्वस्थानेन ऊर्ध्वोत्थापितशरीरेण स्थित्वा आतापनया आतापनरूपतपोविशेषेण आतापयितुम् - आतापनां ग्रहीतुं न कल्पते इति पूर्वेण सम्बन्धः । तहि कथं कल्पते? इति तद्विधिं प्रदर्शयति- 'कप्पड़ से ' इत्यादि, 'से' तस्या निर्ग्रन्थ्याः कल्पते उपाश्रयस्य अन्तर्वगडायां - प्राकाराभ्यन्तरे भित्त्याद्याच्छादितप्रदेशे 'वगडा’– शब्दोऽत्र गृहप्राकाररूपार्थवाचको देशीयो वर्त्तते, तस्या, अभ्यन्तरे, तत्रापि कौदृश्याः ? तत्राह-संघाटी प्रतिबद्धायाः संघाटीग्रहणेन अवग्रहानन्तकादीनां निर्ग्रन्थीप्रायोग्यानां समुचितोपकरणानां ग्रहणं भवति, तैः प्रतिबद्धायाः सुप्रावृतशरीरायाः पुनः कीदृस्याः ? इत्याह- 'पलंबियवाहाए' इति प्रलम्बितबाहायाः प्रलम्बिते अघोलम्बमाने बाहे - बाहू यस्याः सा प्रलम्बितवाहा अधोलम्बमानभुजा, तस्याः प्रलम्बीकृतभुजायाः समतलपादिकायाः समतलौ च तौ पादौ चेति समतलपादौ तौ अस्याः स्त इति समतलपादिका तस्याः, पादद्वयं भूमौ समतया संस्थाप्य स्थितायाः स्थित्वा - पूर्वोक्तप्रकारेण स्थितिं कृत्वा आतापनया - आतापनाभिघतपोविशेषेण आतापयितुम् आतापनां कर्त्तुं कल्पते । साधोर्वैपरीत्येन साध्वीनामातापनाग्रहणं कल्पते, स्त्रीशरीरस्य गोप्यत्वेन तथाविधातापनाग्रहणस्य भगवता प्ररूपितत्वादिति ॥ सू० २२॥