SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ०-४ सू०२७-२९ गणावच्छेदकस्यान्याचार्योपाध्यायस्वीकरणविधिः १०९ छाया-गणावच्छेदकश्च इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुम् नो तस्य कल्पते गणावच्छेदकत्वम् अनिक्षिप्य अन्यम् आचार्योपाध्यायम् उद्देशयितुम् , कल्पते तस्य गणावच्छेदकत्वं निक्षिप्य अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आपृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, ते च तस्य वितरेयुः एवं तस्य कल्पते अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यम् आचार्योपाध्यायम् उद्देशयि. तुम्, नो तस्य कल्पते तेषां कारणं अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम् ॥सू० २७ ॥ चूर्णी-'गणावच्छेयए य' इति । गणावच्छेदकश्च यदि इच्छेत् अभिलषेत्, किमित्याह-अन्यम् अन्यगच्छवर्तिनम् आचार्योपाध्यायम् उद्देशयितुम् स्वस्य गुरुत्वेन व्यवस्थापयितुं तदा तस्य नो कल्पते गणावच्छेदकत्वं स्वकीयगणावच्छेदपदवीम् अनिक्षिप्य कस्मैचिद् असमर्प्य अन्यमाचायोपाध्यायम् उद्देशयितुम् , कल्पते तस्य गणावच्छेदकत्वं स्वपदवीरूपं गणावच्छेदकत्वप्रयुक्तकार्यभार निक्षिप्य स्वसधे कस्मैचित् समर्प्य अन्यमाचार्योपाध्यायमुद्देशयितुं कल्पते इति पर्वेण सम्बन्धः । शेषम् सर्व सूत्रं भिक्षुसूत्रवदेव व्याख्येयम् । एवं च गणावच्छेदकस्य गणविभागकारकत्वेन ज्ञानादिनिमित्तमन्यगणगमनादिकर्तुस्तस्य स्वगणनिक्षेपणं सविग्नाचार्येषु कर्त्तव्यं युज्यते, यदि तु सविग्नाचार्या विषीदन्तो भवेयुस्तदा स्वगणं गृहीत्वा गच्छान्तरगमनादिकं कुर्यात, न तु तेषां विषीदतां सविग्नाचार्याणामन्तिके स्वगणं निक्षिपेत्, अन्यथा--गणस्य तेष निक्षेपणे चारित्रस्खलनादिकं भवेदिति विवेकः ।। सू० २७॥ पूर्व गणावच्छेदकस्य ज्ञानादिवृद्धयर्थं गच्छान्तरस्थमाचार्योपाध्यायमात्मन आचार्योपाध्या. यत्वेन व्यवस्थापनविधिः प्रदर्शितः, सम्प्रति आचार्योपाध्ययस्य तद्विधिं प्रदर्शयति-'आयरियडवज्झाए य' इत्यादि । सूत्रम्-आयरिय-उवज्झाए य इच्छिज्जा अन्न आयरियउवज्झायं उदिसावित्तए नो से कप्पड आयरियउवज्झायत्तं अणिक्खिवित्ता अण्णं आयरियउवज्झायं उदिसाक्तिए. कप्पइ से आयरियउवज्झायत्तं णिक्खिवित्ता अण्णंआयरियउवज्झायं उदिसावित्त जो से कप्पड अणापूच्छित्ता आयरियं वा जाव गणावच्छेयगंवा अण्णं आयरियउवज्झायं उहिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्या आयरियउवज्झायं उदिसावित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं आयरियउवज्झायं उदिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं आयरियउवज्झायं उदिसावित्तए, नो से कप्प तेसि कारणं अदीवित्ता अण्णं आयरियउवज्झायं उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता अण्णं आयरियउवज्झायं उदिसावित्तए ॥ सू०२८॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy