________________
१०८
हत्कल्पस
अन्यमाचार्योपाध्यायमुदिशेत् तदा आज्ञाभङ्गादयो दोपा भवन्ति । तत्र ज्ञाने तावत् केपाञ्चिदाचार्याणां गच्छे कुले संघे वा उत्कृष्ट आचारो विद्यते, ते चाचार्योपाध्यायाः संघसंस्थितिं कृतवन्तः यत्-'ये अस्माकं शिष्यतयोपगता भवेयुस्तेभ्य एव महाकल्पश्रुत दास्यामो नान्येभ्यः' इति, तत्रान्यत्र लाभसंभवे उत्सर्गतो नोपसंपत्तव्यम्, किन्तु अन्यत्र यदि महाकल्पथ्रदायको नोपलभ्यते, एतादृश्यां परिस्थितौ उत्कृष्टाचारप्रतिपादकमहाकल्पश्रुतग्रहणाथै तस्याचार्योपाध्यायस्योदेशनमनिवार्य भवेत्ततस्तमाचार्योपाध्यायं स्वगुरुत्वेन व्यवस्थापयेत् । तमाचार्योपाध्यायं गुरुत्वेन उद्दिश्य तत्सकाशात् महाकल्पश्रुतमधीयीत, अधीते च महाकल्पश्रुते पुनः पूर्वाचार्योपाध्याययोरन्तिके समागच्छेत् किन्तु न तत्रैव स्थितिं कुर्यात् । 'स्वशिप्यत्वेनोपगतायैव महाकल्पश्रुतम् अध्यापयि तव्यम् नान्यस्मै' इत्येषा तेषां स्वेच्छाऽवगन्तव्या न तु जिनाज्ञा यत् शिष्यतयोपगतायैव उत्कृष्टाचारप्रतिपादकं महाकल्पश्रुतम् अध्यापनीयमिति । एवं दर्शनार्थ, तथा विद्यामन्त्रनिमित्तम् हेतुशास्त्रनिमित्तं वाऽन्याचार्योपाध्यायस्यात्मनोगुरुत्वेन व्यवस्थापनं भवेत् । चारित्रार्थ तु उत्कृष्टक्रियाशिक्षणनिमित्तं पूर्वोत्तारीत्यैव अन्याचार्योपाध्यायस्यात्मना गुरुत्वेन निर्धारणमवगन्तव्यमिति ।
तस्मात् एषु त्रिप्वपि ज्ञानदर्शनचारित्रेषु उपार्जनीयेषु मन्याचार्योपाध्यायं गुरुवेन व्यवस्थापयन्तः श्रमणाः पूर्वोक्तरीत्या निवेदितस्वप्रयोजनाः आचार्यादिभिर्विसर्जिता. सन्तोऽन्याचायोपाध्याययोर्गुरुत्वेन व्यवस्थापने दोषभाजो न भवेयुः । तत्र गमिष्यमाणे गच्छे यदि अवसन्नतादिकारणं न भवेत्तदा तत्रोपसंपत्तव्यं नान्ययेति फलितम् ॥ सू० २६॥
पूर्व भिक्षोर्ज्ञानाद्यर्थमन्याचार्योपाध्यायस्यात्मनो गुरुत्वेन व्यवस्थापने विधिरुक्तः, सम्प्रति गणावच्छेदकस्य विधिमाह-'गणावच्छेयए य' इत्यादि।
सूत्रम्-गणावच्छेयए य इच्छेज्जा अण्णं आयरियउवज्झायं उदिसावित्तए नो से कप्पइ गणावच्छेयगत्तं अणिक्खिवित्ता अण्णं आयरियउवज्झायं उदिसावित्तए, कप्पइ से गणावच्छेयगत्तं णिक्खिवित्ता अण्णं आयरियउवज्झायं उदिसावित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं आयरियउवज्झायं उदिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं आयरियउवझायं उदिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्ण आयरियउवज्झासं उदिसावित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्ण आयरियउवझायं उदिसावित्तए, नो से कप्पइ तेसिं कारणं अदीवित्ता अण्णं आयरियउवज्झायं उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता अण्णं आयरियउवज्झायं उदिसावित्तए । सू० २७॥