________________
maAAAAAAM
११०
बृहत्कल्पसूत्रे छाया-आचार्योपाध्यायश्च इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुम् नो तस्य कल्पते आचार्योपाध्यायन्वम् अनिक्षिप्य अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आचार्योपाध्यायत्वं निक्षिण्य अन्यम् आचायोपाध्यायम् उद्देशयितुम्, नो तस्य कल्पते अनपृच्छय आचार्य वा यादत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तत्त्व आपृच्छ्य आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचायोपाध्यायम् उद्देशयितुम् । तेच तस्य वितरेयुः एवं तस्य कल्पते अन्यम् आचायोपाध्यायम् उद्देशयितुम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, नो तस्य कल्पते तेषां कारणम् अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम् ।। सू० २८॥
चूर्णी-'आयरियउवज्झाए य' इति । इदं सर्व सूत्रम् गणावच्छेदकपदत्थाने आचायोपाध्यायपदं संनिवेश्य गणावच्छेदकसूत्रवदेव व्याख्येयम् ।। सू० २८ ।।
पूर्वमन्याचार्योपाध्योदेशनविधिरुक्तः, सम्प्रति कालगतभिक्षोः परिष्ठापनविधिमाह'भिक्खू य राओ वा' इत्यादि ।
सूत्रम्-भिक्खू य राओ वा वियाले वा आइच वीमुंभिज्जा, तं च सरीरगं केइ वियावच्चकरे भिक्खू इच्छिज्जा एगते बहुफासुए थंडिले परिहवित्तए, अत्थि य इत्थ केइ सागारियलतिए उवगरणजाए अचित्ते परिहरणारिहे कप्पई से सागारियकर्ड गहाय तं सरीरंग एगंते वहुफासुए थंडिले परिहवित्ता तत्थेव उवनिक्खियव्चे सिया।मु०२९॥
छाया - भिक्षुश्च रात्रौ वा विकाले वा आहत्य विष्वग्भवेत् तच्च शरीरकं कश्चिद् वैयावृत्त्य करो भिक्षुः इच्छेत् एकान्ते वहुप्रासुके स्थण्डिले परिष्ठायितुम्, अस्ति चात्र किञ्चित् सागारिकसत्कम् उपकरणजातम् अचित्तम् परिहरणाहम्, कल्पते तस्य सागारिककृतं गृहीत्वा तत् शरोरकम् एकान्ते वहुप्रासुके स्थण्डिले परिष्ठाप्य तत्रैव उपनिक्षेप्तव्यं भवेत् ।। सू० २९॥
चूर्णी-'भिक्खू य' इति । भिक्षुश्च सामान्यश्रमणः, चकाराद् आचार्योपाध्यायादिश्च रात्रौ वा सन्ध्याकालातिरिक्तरजन्याम् विकाले वा संध्यासमये सायंकाले आहत्य-कदाचित 'वीमंभिज्जा' इति विश्वग्भवेत् शरीराद् आत्मा पृथग् भवेत् कालधर्म प्राप्नुयात् म्रियेतेत्यर्थः तच्च शरीरकं मृतदेहं कश्चित् समीपस्थो वैयावृत्त्यकरः तस्य सेवाशुश्रूषावर्ती भिक्षु. इच्छेत्-वाञ्छेत् , किमित्याह-तं मृतदेहम् एकान्ते निर्जने बहुप्रासुके अवश्यायोतिङ्ग-पनक-दक-मृत्तिका-मर्कटसन्तानवर्जिते-तत्र-अवश्याय. - मेघमन्तरेण रात्रों पतितः सूक्ष्मतुषाररूपः (ओस) इति भाषाप्रसिद्धः । उतिङ्गाः-भूमौ वर्तुलविवरकारिणो गर्दभमुखाकृतयः कीटविशेषाः कीटिकानगरादयो वा। पनकःअङ्कुरितोऽनङ्कुरितो वा पञ्चवर्णानन्तकायविशेष: जलसम्बन्धेन जायमानः पिच्छिलाकारः-(काई) इति लोकप्रसिद्धः । दकम्-उदकमप्काय., मृत्तिका-सचित्तपृथ्वीकायः, मर्कटकसन्तान:-लूता