________________
बृहत्कल्पसूत्रे
१०० योगवैयावृत्त्यसेवाशुश्रूषास्त्रार्थाऽध्ययनाध्यापनादिपु यथायोग्यं बलाबलं विचार्य यथायोगं नियोजयति यः स प्रवर्तकः । रथविरः-संयमयोगेषु सीदतः साधून् ऐहिकामुष्मिकापायप्रर्दशनपूर्वकं ज्ञानादिषु स्थिरीकरोति यः स स्थविरः । गणी-गणः साधुसमुदायः स्वस्वामिसम्बन्धेन यस्यास्ति स गणी कतिपयसाधुसमुदायेन सह विचरणशीलो यः स गणी। गणधरः-यो गणचिन्ताकारकः गणस्य योगक्षेमविधायकः स गणधरः । गणावच्छेदकः-गणस्य साधुसमुदायस्य अवच्छेदं विभागं करोति यः स गणावच्छेदकः । एतान् आचार्यादीन् अनापृच्छ्य गणाद् गणान्तरमुपसंक्रम्य भिक्षोर्विहत्तु न कल्पते इति भावः । तहिं कथं कल्पते ? इत्याह-पूर्वोक्तान् आचार्यादीन् आपृच्छ्य तस्य भिक्षोर्गणान्तरमुपसंपद्य विहां कल्पते । ते च यदि तस्य वितरेयुः गणाद् गणान्तरं संक्रमितुमाज्ञां दद्युः एवम्-अनेन विधिना तस्य भिक्षोः कल्पते अन्य गणं गणाद् गणान्तरम् उपसंक्रम्य विहर्तुम् । यदि ते च तस्य गणान्तरसंक्रमणेच्छुकस्य नो वितरेयुः आज्ञा न दद्युः एवम्-अनेन प्रकारेण आज्ञामन्तरेण नो कल्पते तस्य भिक्षोरन्यं गणमुपसंपद्य विहर्तुमिति । एवं भिक्षुविषय आलापो निर्ग्रन्थ्या अपि गणान्तरगमनविषयेऽवगन्तव्यः किन्तु एतदपेक्षया विशेषस्तुनिम्रन्थी नियमत एव ससहाया गणान्तरं गच्छति न तु कथमपि असहाया एकाक्रिनीति ।। सू० २०॥
पूर्वसूत्रे सामान्यश्रमणस्य गणान्तरसक्रमणविधिरुक्तः, एष एव गणावच्छेदकाचार्योपाध्यायानामपि विधिर्भवतीति भाष्यकारोऽतिदिशति- 'जह भिक्खुस्स' इत्यादि ।
भाष्यम्-जह भिक्खुस्स य कहिओ, गणावछेए तहेव आयरिए । एसेव उवज्झाए, विही य ते हंति वत्ता उ ॥१॥ छाया-यथा भिक्षोश्च कथितः गणावच्छेदे तथैव आचार्ये । एष एव उपाध्याये विधिश्च ते भवन्ति व्यक्तास्तु ॥ १॥
अवचूरी-'जह भिक्खुस्स' इति यथा-येन प्रकारेण भिक्षोश्च सामान्यश्रमणस्य गणान्तरसंक्रमणविपये सूत्रे विधिः कथितः तथैव तेनैव प्रकारेण गणावच्छेदे-गणावच्छेदविषये, आचार्ये-आचार्यविषये, उपाध्याये उपाध्यायविषये एष एव विधिः पृच्छादिरूपो विज्ञेयः, नवरं नानात्वं केवलमेतावदेव यत्-भिक्षोः केवलं पृ पूर्वकं गमनं प्रतिपादितम् , गणावच्छेदकादीनां तु स्वपदत्यागपुरस्सरमाचार्यादिकं पृष्ट्वा गन्तव्यम्, यत एते गणावच्छेदकादयो नियमात् 'वत्ता उ' इति व्यक्ता वयसा श्रुतेन च व्यक्ता एव भवन्ति नाव्यक्ताः ततो योऽव्यक्तस्य विघिरुक्त. सोऽत्र न भवतीति भावः ।। १ ।।
पूर्व सामान्यश्रमणस्य ज्ञानाद्यर्थ गणान्तरगमनविधिः प्रतिपादितः, सम्प्रति विशेषमाश्रित्य गणावच्छेदकाचार्योपाध्यायानां गणान्तरगमनविधिं सूत्रकारः साक्षात् प्रतिपादयन् प्रथमं गणावच्छेदकस्य विधिमाह-'गणावच्छेयए य' इत्यादि ।