________________
णि भाष्याऽवचूरी उ० ४ सू० २०
भिलोरन्यगणममनविधिः १६५ आचेलक्यादिदशविधस्थितकल्पे स्थितास्ते कल्पस्थिताः कथ्यन्ते, ये च' अकल्पे-अस्थितकल्पे. यथासंभवपालनरूपे स्थितास्ते" अकल्पस्थिताः कथ्यन्ते ।
कल्पस्थितानां पूर्वपश्चिमतीर्थकरसाधूनां पञ्चमहातरूपा स्थितिर्भवति । मध्यमद्वाविंशतितीर्थकरसाधूनां महाविदेहक्षेत्रस्थितसाधूनां च चातुर्यामरूपी कल्पस्थिंतिर्भवति । एषां। चत्वारि महाव्रतानि भवन्ति 'न अपरिगृहीता नो भुज्यते इति नियमात् चतुर्थं ब्रह्मचर्यव्रतं तेषां परिग्रहविरमणवते एवान्तर्भवतीति ।। सू० १९ ॥
पूर्व कल्पस्थिता अकल्पस्थिता वर्णिताः, तप्रसङ्गाद् अत्र कल्पस्थितस्याऽकल्पस्थितगणे अकल्पस्थितस्य कल्पस्थितगणे कारणवशात् सक्रमणं भवेत्तस्यान्यगणसंक्रमणे विधिः प्रतिपाद्यतेभिक्खू-य' इत्यादि ।
सूत्रम्-भिक्खू य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उपसंपज्जित्ता णं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झाय वा - पवत्तयं वा थेरं वा गणि वा गणहरं वा गणावच्छेयगं वा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पइ से आपुच्छित्ता आयरियं वा उवज्झायं वा पवत्तयं-चा थेरं वा गणि वा गणहरं-वागणावच्छेयगं चा अन्नं गणं उपसंपज्जित्ता णं विहरित्तए, ते य से वियरेज्जा एवं से कप्पइ अन्न माणं उवसंपज्जित्ता णं विहरित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं गणं उपसंपज्जित्ता णं विहरित्तए ॥ सू० २० ॥
छाया--भिक्षुश्च गणाद् अवक्रम्य इच्छेत् अन्य गण उपसंपद्य विहर्तुम् नो तस्य कल्पते अनापृच्छय आचार्य वा; उपाध्याय वा प्रवर्तकं वा स्थविरं वा गणिनं वागणधरं वा गणावच्छेदकं वा अन्य गणम् । उपसम्पद्य विहर्त्तम्, कल्पते तस्य आपृच्छंय आचार्य वा उपाध्याय वा प्रवर्तकं वा स्थविरं वा गणिनं वागणधरं वा गणावच्छेदकं वा अन्य गणम उपसंपद्य-विहर्त्तम्, ते च-तस्य-वितरेयुः एवं त्तस्य कल्पते अन्य गणम् उपसंपद्य-विहर्तम् , तेच तस्य नो वितरेयु. एवं तस्य नो कल्पते अन्य गणम् उपसंपद्य विहर्तुम् ॥ सू० २०॥
चूर्णी-'भिक्खू य' इति । भिक्षुश्च निम्रन्थो यदि गणात् स्वगणाद् अपक्रम्य-निस्सृत्यज्ञानदर्शनादिप्राप्त्यर्थं स्वर्गणाद् निर्गत्य इच्छेत् अन्य स्वगणभिन्नं गणम् उपसंपद्य स्वीकृत्य विहर्तुम् तत्रावस्थातुम् तदा तस्य भिक्षोनों कल्पते, कदा ? इत्याह- अनापृच्छ्य पृच्छामकृत्वा, कम् ? इत्याहअचार्य वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणिनं वा गणधरं वागणावच्छेदकं वा, तत्र-आचार्यः' यः पञ्चाचारान् स्वयं पालति परांश्च 'पालयति सः, तथा 'योऽर्थ वाचयति गणस्य मेघीभूतः आचारद्यष्टविघसपदायुक्तः ताश्च यथा-आचारसंपद् १ श्रुतसंपद् २ शरीरसंपद् ३ वचनसंपद् ४ वाचनासंपद् ५ मतिसंपद् ६. उपयोगसपद्' ७ संग्रहसंपद् ८ इति. एवं योऽष्टविधसंपदा युक्तो भवेत् स आचार्यः । तथा उपाध्यायः यस्य उप-समीपे एत्य अधीयते प्रवचनं शिष्यैर्यस्मात् स उपाध्यायः। प्रवर्तका-प्रवर्तयति आचार्योपदिष्टेषु कार्येषु तपःसयम