________________
वृहत्कएपखत्रे
लेख्य तं भूप्रदेश-चक्षुषा-सम्यड् निरीक्ष्य प्रमृज्य रजोहरणेन सम्यक्तया तत्स्थानस्य प्रमार्जन कृत्वा परिष्ठापयितव्यम् ॥ सू० १८॥
पूर्वसूत्रेऽनाभोगेन -गृहीतमचित्तमनेषणीयं : पानभोजनमनवस्थापितकाय प्रदातव्यं, न स्वयं भोक्तव्यं नान्येभ्यः प्रदातव्यमिति प्रतिपादितम्, सम्प्रति 'किमर्थमनेषणीयमिदं पानभोजनं मह्यं दीयते' इत्येवं कलुषितपरिणामस्य शैक्षस्य प्रज्ञापनार्थमिदं सूत्रं प्रारभ्यते, · अथवा 'कथं - तावत् शैक्षस्यानेषणीयं पानभोजनं . कल्पते ? इति शङ्कायां - तत्समाधाननिमित्तमिदं सूत्र प्रारभ्यते'जे कडे' इत्यादि ।
सूत्रम्-जेकडे कप्पद्वियाणं कप्पइ से अकप्पट्ठियाणं, नो से कप्पइ कप्प'ट्ठियाणं, जे :कडे अकप्पट्ठियाणं णो से कप्पइ कप्पटियाणं कप्पइ से अकप्पट्टियाणं कप्पे ठिया कप्पट्ठिया, अकप्पे ठिया अकप्पट्ठिया ॥ सू० १९॥
___-छाया यत् कृतंकल्पस्थितानां कल्पते तत् अकल्पस्थितानाम् नो तत् कल्पते कल्पस्थितानाम् यत् कृतम् अकल्पस्थितानां नो तत् कल्पते कल्पस्थितानाम्, कल्पते तद् .अकल्पस्थितानाम्, कल्पे स्थिता कल्पस्थिताः अकल्पे स्थिता अकल्पस्थिताः । सू० १९॥
चूर्णी-'जे कडे' इति । यद् भक्तपानादिकं कृतं आधाकर्मत्वेन निष्पन्नं कल्पस्थितानाम् आचेलक्यादिदशविघस्थितकल्पे स्थितानाम् । कल्पो द्विविधः स्थितकल्पः अस्थितकल्पश्च । तत्र आचेलक्यादिदशविधः स्थितकल्पः, असौ आदिमान्तिमतीर्थकरयोः साधूनां पञ्चयामधर्मप्रतिपन्नानां भवति ततस्ते कल्पस्थिताः कथ्यन्ते, दशविधकल्पो यथा-आचेलक्यम् १ कृतिकर्म २, महावतम् ३, पर्यायज्येष्ठत्वम् ४, प्रतिक्रमणम् ५, मासनिवासः ६, पर्युषणा ७, औदेशिकम् ८, शय्यातरपिण्डः ९, राजपिण्डः '१० । एतेषु दशसु कल्पेषु आदितः सप्तविध कल्पाः ग्राह्या इत्यर्थः, औदेशिकादिकास्त्रयो निषेधकल्पाः अग्राह्या इत्यर्थः, एषु कल्पेषु स्थिताः कल्पस्थिताः, तेषां कृते यद् भक्तपानादिकं निष्पन्नं तद् भक्तपानादिकं कल्पते अकल्पस्थितानाम्आचेलक्यादिसम्पूर्णदशविधकल्परहितानाम् मध्यमद्वाविंशतितीर्थकरसाधूनां चातुर्यामधर्मप्रतिपन्नानां कल्यते इति पूर्वेण सम्बन्धः, किन्तु 'नो से' इति तद् भक्तपानादिकं कल्पस्थितानां आदिमान्तिमतीर्थकरसाधूनां पञ्चयामधर्मप्रतिपन्नानां नो कल्पते, कल्पस्थितानुद्दिश्य निष्पादितं भक्तपानादिकमकल्पस्थितानां कल्पते किन्तु कल्पस्थितानां तत् नो कल्पते इत्याशयः ।
अथ च 'जे कडे' इति । यद् भक्तपानादिकम् अकल्पस्थितानां कृते कृतं निष्पादितं भवेत् तद् नो कल्पते कल्पस्थितानाम् किन्तु तद् अकल्पस्थितानां कल्पते। यत् चातुर्यामधर्मप्रतिपन्नानुद्दिश्य संपादितं भक्तपानादिकं पञ्चयामधर्मप्रतिपन्नानां नो कल्पते तत्तु चातुर्यामधर्मप्रतिपन्नानामेव कल्पते इति भावः । कथं कल्पस्थिता अकल्पस्थिता इति कथ्यन्ते ? तत्राह-'कप्पे ठिया' इत्यादि, ये कल्पे