SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्याऽवचूरी उ० ४ सू० २१-२२ गणावच्छेदकादेरन्यगणगमनविधिः १०१ सूत्रम्-गणावच्छेयए य गणाओ अवक्कम्म इच्छेज्जा अण्णं गणं उवसंपज्जित्ता ण विहरित्तए नो से कप्पइ गणावच्छेयगस्स गणावच्छेयगतं अणिक्खिवित्ता अन्नं गणं उव संपज्जित्ता णं विहरित्तए, कप्पइ गणावच्छेयगस्स गणावच्छेयगत्तं णिक्खिवित्ता अण्णं गणं उवसंपज्जित्ता णं विहरितए, णो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा पवत्तयं वा थेरं वा गर्णि वा गणहरं वा गणावच्छेयगं वा अन्नं गणं उ वसंपज्जित्ता णं विहरित्तए, कप्पई से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, ते य से णो वियरेज्जा एवं से णो कप्पइ अण्णं गणं उवसंपज्जित्ता णं विहरित्तए ॥ सू० २१ ॥ छायागणावच्छेदकश्च गणाद् अपक्रम्य इच्छेत् अन्यं गणम् उपसंपद्य विहर्तुम् नो तस्य कल्पते गणावच्छेदकस्य गणावच्छे दकत्वम् अनिक्षिप्य अन्य गणम् उपसंपद्य विहर्त्तम्, कल्पते तस्य गणावच्छेदकस्य गणावच्छेदकत्वं निक्षिप्य अन्यं गणम् उपसंपद्य विहर्तुम् । नो तस्य कल्पते अनापृच्छय आचार्य वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणिनं वा गणावच्छेदकं वा अन्य गणम् उपसंपद्य विहर्तुम्, कल्पते तस्य आपृच्छय आचार्य वा यावत् गणावच्छेदक वा अन्य गणम् उपसंपद्य विहर्त्तम्, ते च तस्य वितरेयुः एवं तस्य कल्पते अन्य गणम् उपसंपद्य विहर्त्तम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यं गणम् उपसंपद्य विहर्तुम् ॥ सू० २१ ॥ चूर्णी--'गणावच्छेयए य' इति । गणावच्छेदको यदि गणादपक्रम्य विशेषज्ञानादिप्राप्त्यर्थम् अन्य गणमुपसपथ विहत्तुम् अवस्थातुम् इच्छेत् तदा तस्य गणावच्छेदकस्य गणावच्छेदकत्वं स्वपदवीरूपम् अनिक्षिप्य-आचार्यादिषु असमारोप्य न समर्म्य, स्वपदवीमन्यस्मै अदत्त्वेत्यर्थः अन्यं गणम् उपसपद्य विहां नो कल्पते । तहि कय कल्पते । इत्याह-कल्पते तस्य गणावच्छेदकस्य गणावच्छेदकत्वं स्वदपदवीरूपं निक्षिप्य अन्यस्मै दत्त्वा अन्यं गणमुपसपद्य विहर्तुमिति । पृच्छाविधिभिक्षुसूत्रवदेव व्याख्येयः । अयं भावः-आचार्यादिकमनापृच्छ्य गणान्तरसंक्रमणं तस्य न कल्पते, किन्तु भाचार्यादिकमापृच्छयव गणान्तरगमनं कल्पते । तत्रापि यदि ते गणान्तरगमनाज्ञां वितरेयुः तदा कल्पते. यदिन वितरेयुस्तदा नो कल्पते इति सूत्रार्थ ॥ सू० २१ ॥ पूर्व गणावच्छेदकस्य गणान्तरसक्रमणविधिरुक्तः, सम्प्रति आचार्यस्य उपाध्यायस्य च ज्ञानाद्यर्थं गणान्तरगमने विधिमाह-'आयरियउवज्झाए य' इत्यादि । सूत्रम् -आयरियउवज्झाए य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उपसंपज्जित्ता णं विहरित्तए नो से कप्पइ आयरियउवज्झायस्य आयरियउवज्झायत्तं अणिक्खिवित्ता अण्णं गण उपसंपज्जित्ताणं विहरित्तए, कप्पइ से आयरियउवज्झायस्स आयरियउवज्झायत्तं णिक्खिवित्ता अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy