SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यामधूरी उ० ३ सू० ३२ प्रामादिभूमेरवग्रहानुज्ञापनाविधिः ८१ युज्यते तां रजनी रात्री तत्रैव सैन्यपरिवेष्टिते ग्रामादौ अतिक्रामयितुम् उल्लङ्घयितुं यापयितुं तत्र स्थातुमित्यर्थः नो कल्पते इति पूर्वेण सम्बन्धः । यः खलु निर्ग्रन्थो वा निम्रन्थी वा तां रजनी तत्रैव अतिक्रामयति अतिकामयन्तं वाऽन्य स्वदते अनुमोदते सः 'दुहओवि' इति द्विधातोऽपि तीर्थकरतो नृपतो वा उभयतोऽपि अतिक्रामन् आज्ञामुल्लचयन् तीर्थकराज्ञां नृपाज्ञां च विलोपयन् आपद्यते-प्राप्नोति चातुर्मासिकं चतुर्माससम्बन्धिकं परिहारस्थानं प्रायश्चित्तस्थानम् अनुदातिक चतुर्गुरुरूपं प्राप्नोतीति पूर्वेण सम्बन्धः ॥सू० ३१॥ __ अत्राह भाष्यकार:-'पढम' इत्यादि । भाष्यम् --पढ़मं जइ जाणिज्जा, निमित्त विज्जावलेण उप्पायं । सोच्चा वा जइ जाणइ, तत्तो पुव्वं नियत्तेज्जा ॥७॥ छाया--प्रथमं यदि जानीयात् निमित्तविद्यावलेन उत्पातम् । श्रुत्वा वा जानीयात् तत्तः पूर्व निवर्तत ॥७॥ अवचूरी-'पढम' इति । प्रथमं विरुद्धराज्यातिक्रमणादितः पूर्वं निम्रन्थो यदि निमित्तशास्त्रस्य विद्यायाश्च वन उपलक्षणादवधिज्ञानाधतिशयेन वा उत्पातं भविष्यमाणमुपद्रवं जानीयात् , वा-अथवा श्रुखा-अन्यजनसक्राशात् अतिशयज्ञानिसकाशात् कस्यचिदेवस्य कथनाद्वा श्रवणगोचरीकृत्य अनागतकालिकमुपद्रवम्-यथा जनाः परस्पर वार्तालापसमये किञ्चिद्विरोधादिकारणमुपलक्ष्य वदन्ति यदत्र परराजातिक्रमणं भविष्यतीति, तथा किञ्चित्प्रकारकं दुनिमित्तमशुभं चन्द्रसूर्यपरिवेषादिकं दृष्ट्वाऽनुमानेन उत्पातसंभव कथयन्ति, इति तेभ्यः श्रुत्वा वा उत्पातं जानीयात् तदा श्रमणः तत्तः तस्माद् प्रामादितः पूर्व पूर्वमेव उत्पातात्यागेव निवर्तेत ततो निर्गच्छेत् न तत्र वासं-मासकल्परूप चातुर्मासरूपं वा कुर्यादिति भावः । यदि च पूर्वोक्तप्रकारेण नावगतं स्यात् सहसैव तद् प्रामादिकं परसैन्येन अवरुद्ध भवेत् , मार्गाश्च व्यवच्छिन्नास्तदा निर्गमनं श्रमणैर्न कर्तव्यम् , अथवा केचित् साधवो ग्लाना ज्वरादिपीडिताः तपोदुला वा भवेयुस्तदापि तत्रतो न निर्गन्तव्यं, तत्रैव यतनया संयमरक्षणपूर्वकं स्थातव्यम् । यदि परचक्रपीडिता जना एकत्रीभूय पर्वतदुर्गादिषु गत्वा तिष्ठन्ति तदा श्रमणैरपि तैः सार्धं गत्वा तत्रैव भक्तपानादौ गमनागमनादौ च तथा यतना कर्त्तव्या यथा संयमयोगो न परिभ्रश्येतेति भावः ॥७॥ अथ प्रामादिषु अवग्रहमर्यादां प्रतिपादयति-से गामसि वा' इत्यादि सूत्रम्--से गामंसि वा जाव संनिवेसंसि वा कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ समंता सकोसं जोयणं उग्गहं ओगिण्हित्ता णं चिट्ठित्तए ॥ सू० ३२॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy