________________
वृहत्कल्पसूत्रे
M
वर्त्तते तत्र यथालन्दमपि जघन्यमध्यमयथालन्दकालं यथावसरम् अवग्रहो भवति न तत्र कोऽपि अनुज्ञापयितव्यः, एपां स्थानानां पूर्वमेव सागारिकराजादिनाऽनुज्ञापितत्वादेव, अत्र सागारिकराजावग्रही बोध्यौ । अत्रायं विवेकः-पूर्वोक्तेपु स्थानेषु यथायोग्यमवग्रहो भवति यथा-अनुचरिकायामष्टौ हस्ता अवग्रहे, परिखायां चत्वारो रत्नयः, वृतिस्वामिनो वृते. परमपि हस्तमात्रमवग्रहो वोध्यः । शेषः पुनः सर्वोऽपि नृपतेरवग्रहो मन्तव्यः । एतदवग्रहपरिमाणं बोध्यम् । अत्र उच्चारादीनि स्थाननिषदनादीनि वा कुर्वन् श्रमणो यदि कुड्यादीनां हस्ताभ्यन्तरे करोति तदा तेन गृहपत्यवग्रहो मनसि भावनीयः, हस्तात्पुनरधिकं बहिश्चरिकाप्राकारपरिखादिषु च राजावग्रहो वोध्यः, अटव्यामपि यद्यसौ राजा भवति तदा तस्यैवावग्रहं श्रमणः स्मरेत् , यदि चासौ राजा तत्राटव्यां न प्रभुस्तदा शकेन्द्रस्यावग्रहं मनसि चिन्तयेदिति ॥ सू० ३० ॥
॥ इत्यवग्रहप्रकरणम् ॥ पूर्व श्रमणस्य निवासविषयोऽवग्रहः प्रतिपादितः तत्र, राजावग्रहोऽप्यन्तर्भूत इति साम्प्रतं विरुद्धराजसैन्यातिक्रमणे निर्ग्रन्थनिग्रन्थीनां भिक्षाचर्यानिवासादिविधि प्रतिपादयति'से गामस्स वा' इत्यादि ।
सूत्रम्--से गामस्स या जाव रायहाणीए वा वहिया सेण्णं सनिविठं पेहाए कप्पइ निग्गंधाण वा निगंथीण वा तदिवसं भिक्खायरियाए गंतुं पडिनियत्तए । नो से कप्पइ तं रयणि तत्थेव उवाइणावित्तए, जो रवलु निग्गंथो वा निग्गंथी वा तं रयणि तत्थेव उवाइणावेइ, उवाइणावंतं वा साइजइ, से दुइओवि अइक्कममाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ सू० ३१ ॥
छाया-अथ ग्रामस्य वा यावद् राजधान्या वा वहिः सैन्य संनिविष्टं प्रेक्ष्य कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तं दिवसं भिक्षाचर्यायै गत्वा प्रतिनिवर्तितम् । नो तस्य कल्पते तां रजनी तत्रैव अतिक्रामयितुस् । यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा तां रजनी तत्रैव अतिक्रामयति अतिक्रामयन्तं वा स्वदते स द्विघातोऽपि अतिक्रामन् आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ॥ सू० ३१ ॥ ___चूर्णी-'से गामस्स वा' इत्यादि । 'से' अथ-अवग्रहप्रकरणानन्तरं सम्प्रति ग्रामस्य वा आसन्नग्रामस्य 'जाव' इति यावत् , यावत्पदेनात्र नगरादिपदाना संग्रहपाठोऽस्यैव प्रथमोद्देशके षष्ठसूत्रोको ग्रामादारभ्य राजधानीपर्यन्तः सर्वोऽपि वाच्यः, अत्रोक्तपदानामर्थोऽपि तत्रैवाऽवलोकनीयः। राजधान्या वा वहिः-बहिर्भागे सैन्यम् अन्यनृपतेः सैन्यदलं ग्रामादिविजयार्थ संनिविष्टम् आगत्य स्थितं प्रेक्ष्य दृष्ट्वा कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तत्तद्ग्रामादिस्थितानां तदिवसमभिव्याप्य तस्मिन् दिवसे इत्यर्थः भिक्षाचर्यायै भिक्षाचर्यार्थ तत्र आसन्नग्रामादौ गत्वा प्रतिनिवर्तित प्रत्यागन्तुं कल्पते किन्तु 'से' तस्य भिक्षाचर्यागतस्य निर्ग्रन्थस्य निर्ग्रन्ध्या वा नो कल्पते न