SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ घूर्णिभाष्यावचूरी उ०३ सू० २९-३१ उपाश्रयादेरवग्रहानुज्ञापनाविधिः ७९ चूर्णी-'से वत्थुसु वावडेसु' इति । तस्य पूर्वोक्तस्य श्रमणस्य वास्तुषु व्यापृतेषु निवासव्यापारविशिष्टेपु, व्याकृतेषु दायादादिभिर्विभज्य एकेन स्वायत्तीकृतेषु परपरिगहीतेषु अन्यैरधिष्ठितेपु, 'भिक्खुभावस्स अहाए'-भिक्षुभावो ज्ञानदर्शनचारित्ररूपः तृतीयत्रतादिरूपो वा यथाऽयं भिक्षुभावो परिपूर्णो भवेदित्येवंरूपः, तस्यार्थाय प्रयोजनाय सग्यक्तया भिक्षुभावपालननिमित्तं पूर्वस्थितश्रमणविहारसमये य' समागच्छति तस्य दोच्चंपि द्वितीयमपि वारं प्रथम तैरवग्रहानुज्ञापना गृहीताऽतो द्वितीयवारमिति कथितम्, अवग्रहोऽनुज्ञापयितव्य. निवासार्थ गृहस्वामिन आज्ञा ग्रहीतन्या स्यात् तेन पुनरप्याज्ञा ग्रहीतव्येति भावः । कियत्कालमित्याह-यथालन्दमपि जघन्ययथालन्दकालं यावदपि यथालन्दकालार्थमपि अवग्रहोऽनुज्ञापयितव्य इति । तत्रावग्रहः पञ्चविधः-शक्रेन्द्रावग्रह १, राजावग्रहः २, गाथापत्यवग्रहः ३ सागारिकावग्रहः ४, साधर्मिकावग्रहश्चेति ५। एपु पञ्चविधेषु अवग्रहेषु यस्य यत्रावग्रह उचितो ज्ञायते तस्य तस्यावग्रहेण गृहीतेपु उपाश्रयादिषु श्रमणैर्वस्तव्यम् । यदि कुत्रापि वृक्षतलादिशून्यस्थाने यस्य कोऽपि स्वामी न भवेत्तत्र यदि वस्तव्यं स्यात्तदा शक्रेन्द्रस्यावग्रहोऽनुज्ञापयितव्यः । अत्र कश्चित् शङ्कते-किं शक्रेन्द्रोऽनुज्ञां ददाति येन तस्यावग्रहोऽनुज्ञाप्यते ? शृणु, यद् भगवतोवग्रहप्रतिपादकं वचनं श्रुत्वा शकेन्द्रस्तीर्थकरं वन्दित्वा यद् यद अस्वामिकम् आत्मीयेऽवग्रहे साधुप्रायोग्यं सचित्तं शिष्यादि, अचित्तं मिश्रं वा किमपि वस्तुजातं भवेत्तत्तत्तदानीं सर्वमपि भगवद्वचनाराधकत्वेन प्रसन्नमनसा साधुभ्योऽनुजानातीत्यत एव शक्रेन्दस्यावग्रहः शास्त्रे प्रतिपादित इति ॥ सू० २९ ॥ अथावग्रहप्रसङ्गादत्र सागारिकावग्रहस्य राजावग्रहस्य चावग्रहपरिमाणं प्रतिपादयितुमाह'से अणुकुड्डेमु' इत्यादि । सूत्रम्-से अणुकुड्डेसु वा अणुभित्तिसु वा अणुचरियासु वा अणुफलिहासु वा अणुपंथेसु वा अणुमेरासु वा सच्चेव उग्गहस्स पुव्वाणुण्णवणा अहालंदमवि उग्गहे ।। सू०३०॥ छाया-तस्य अनुकुडयेपु वा अनुभित्तिपु वा अनुचरिकासु वा अनुपरिखासु वा अनुपथेपुवा अनुमर्यादासु वा सैव अवग्रहस्य पूर्वानुज्ञापना यथालन्दमपि अवग्रहः॥ सू०३० ।। चूर्णी--‘से अणुकुड्डेमु वा' इति । 'से' तस्य पूर्वोक्तस्य श्रमणस्य अनुकुडयेपु वा मृत्तिकानिर्मितभित्तिनिकटवर्तिपु स्थानेषु, अनुभित्तिपु वा इष्टकाप्रस्तरादिनिर्मितभित्तिनिकटवर्तिपु प्रदेशेष, अनुचरिकासु वा-नगरप्राकारयोरपान्तरालवर्तिपु अष्टहस्तप्रमाणमार्गेषु, अनुपरिखासु वा नगरचतुर्दिकस्थितखातिकासमीपवर्तिषु प्रदेशेषु, अनुपयेषु वा मार्गसमीपवत्तिषु स्थानेषु, अनुमर्यादासु वा-नगरसीमासमीपवर्त्तिषु स्थानेषु, एतेषु स्थानेषु सा एव राजाऽनुज्ञा एव यत्र न कोऽपि गृहादि करोति जनसाधारणार्थमेव यानि स्थानानि नगरप्रामादिपु राज्ञा स्थापितानि भवन्ति तेषु स्थानेषु राजाज्ञा पूर्वमेवानुज्ञापिता भवति अतः सा एवावग्रहस्य पूर्वानुज्ञापना तिष्ठति
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy