________________
७८
वृहत्कल्पसूत्रे
भाष्यम्--अव्वावड-अव्वोगड-अपरा-ऽमरपरिग्गहियवत्थूणि । नाणाविहभेयाणि य, नायवाणीह जहजोगं ॥१०॥ छाया-अव्यापृताऽव्याकृताऽपरामरपरिगृहीतवास्तूनि । नानाविधभेदानि, झातव्यानीह यथायोग्यं ॥ १० ॥
अवचूरी--'अव्वावड०' इति । अव्यापृतानि अव्याकृतानि, अपरपरिगृहीतानि अमरपरिगृहीतानि चेति चत्वारि वास्तुनि नानाविधभेदानि अनेकभेदयुक्तानि इह शास्त्रे यथायोग्यं ज्ञातव्यानि । तथाहि-अव्यापृतानि शटितपतितादिना न तत्र केनापि वासो विहितस्तादृशानि, अव्याकृतानि बहुजनस्वाभिकत्वेन तेषु न केनाप्येकेन स्वायत्तीकृतानि, अपरपरिगृहीतानि नान्यः कैश्चिदधिष्ठितानि अस्वामिकानीव स्थितानि, अमरपरिगृहीतानि कृतव्यन्तरादिदेवनिवासानीति । तत्र अव्याप्तं वास्तु यथा कश्चित् कौटुम्बिको गृहं निर्मापितवान् तत्र वस्तुमारब्धवान् तस्य कुमुहूर्तादिसंयोगे निर्मापितत्वेन स तत्र न सुखं वस्तुं शक्नोति, तत्र वासानन्तरं प्रतिदिनं द्रव्यहानिः प्रारब्धा ततः स तं मुक्तवान् न तत्र कोऽपि वसति तद् वास्तु अव्यापृतं प्रोच्यते । अव्याकृतं यथाकेनापि आढयेन श्रेष्ठिना गृहं निर्मापितम्, तस्य बहवः सुता आसन् , मृते च तस्मिन् तद् गृहं दायादगणगोष्ठीसत्ताकं जातं, नैकस्य, कियत्कालानन्तरं क्षीणधनत्वेन तद् गृहमेको ग्रहीतुं न शक्नोति. राजकरश्च तस्य दातव्यः स्यादिति तद् गृहं श्रमणनिवासार्थ धार्मिकस्थानत्वेन तैः समर्पितम्, ते चान्यत्र स्वकुटीरं निर्माय स्थातुमारब्धवन्तः, तादृशं गृहमव्याकृतं प्रोच्यते २। अपरपरिगृहीतं यथा-अन्यः कैश्चिदपि स्वपरिग्रहे न कृतं तद्रक्षार्थ तत्र कोऽपि प्रेक्षकः स्थापित इति तद् गृहमपरपरिगहीतं कथ्यते ३। अमरपरिगृहीतं यथा-कश्चित् श्रेष्ठी गृहं व्यन्तराधिष्ठितभूमिभागे निर्मापितवान् वस्तं प्रारब्धवांश्च, तस्मिन् समये स व्यन्तरो देवः स्वप्ने निवेदितवान्-'यत्त्वया मदधिष्ठितभूमौ गृहं निर्मापितमतोहमत्र निवसिष्यामि, यदि त्वं वसिष्यसि तदा त्वां सकुटुम्बं विनाशयिष्यामि श्रमणा वसन्तु' इति तद्भयात्तेन तद् गृहं परित्यक्तम्, तादृशं वास्तु अमरपरिगृहीतमुच्यते ४ । एतादृशेषु वास्तुषु ये श्रमणाः पूर्वस्थितास्तेषु मासकल्पे चातुर्मासे वा समाप्ते सति तत्समये येऽन्ये श्रमणाः समागतास्तेषामवग्रहस्य पूर्वानुज्ञापनैव तेन यथालन्दकालं स्थातुं कल्पते न तु तैः निवासार्थ पुनरनुज्ञा ग्रहीतव्येति ॥ १० ॥
अथाव्यामृतादिविपरीतव्यापृतादिवास्तुविषयामवग्रहानुज्ञापनां प्रदर्शयति-'से वत्थुसु वावडेसु' इत्यादि ।
सूत्रम्-से वत्थुसु वावडेसु वोगडेसु परपरिग्गहिएसु भिक्खुभावस्स अट्टाए दोच्चंपि उग्गाहे अणुण्णवेयचे सिया अहालंदमवि उग्गहे ।। सू० २९ ॥
छाया-तस्य वास्तुपु व्यापृतेपु व्याकृतेपु परपरिगृहोतेपु भिक्षुभावस्याय द्वितीयमपि अवग्रहः अनुज्ञापयितव्यः स्यात् यथालन्दमपि अवग्रहः ॥ सू० २९ ॥