________________
दृहरकरपस्ने छाया—अथ ग्रामे वा यावत् संनिवेशे वा कल्पते निर्ग्रन्थानां वा निग्रंन्धीनां वा सर्वतः समन्तात्सक्रोशं योजनम् अवग्रहम् अवगृह्य स्थातुम् ॥ सू० ३२॥
तइओ उद्देसो समत्तो ॥३॥ चूर्णी-'से गामंसि वा' इति । अथ-सैन्यप्रकरणानन्तरम् ग्रामे वा यावत् संनिवेशे वा यावत्पदेन-ग्रामाकरनगरखेटकर्वटद्रोणमुखपत्तनाश्रमसंनिवेशेषु इत्यर्थो वोध्यः, एतेषु स्थानेषु यदा मासकल्पं चातुर्मासं .वा यावत् स्थितिं कुर्वतां निर्ग्रन्थानां निर्ग्रन्थीनां वा सर्वतः समन्तात् प्रामादेः पूर्वपश्चिमदक्षिणोत्तरदिक्षु विदिक्षु वा प्रत्येकं सक्रोशं योजनम् पञ्चक्रोशान् यावत् सार्द्धद्विक्रोशं गमनस्य सार्द्धद्विक्रोशमेवागमनस्य एवं पञ्चक्रोशान् यावत् प्रत्येकं दिशि क्रोशद्वयमाहाराद्यर्थ, तत्स्थानाक्रोशाई विचारभूमिनिमित्तमिति, अनेन प्रकारेण गमनागमनस्य पञ्चक्रोशपरिमितक्षेत्रविषयमवग्रहम् अवगृह्य-अनुज्ञाप्य तत्र स्थातुं मासकल्पं चातुर्मासं वाऽवस्थातुं कल्पते ॥ सू० ३२॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुररानप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायो "बृहत्कल्पसूत्रस्य"
चूर्णि-भाष्या-ऽवचूरीरूपायां व्याख्यायां
तृतीयोद्देशकः समाप्तः ॥३॥