________________
७४
वृहत्कल्पसूत्रे प्रथमं प्राणातिपातविरमणाख्यं व्रतं सदेवमनुष्यासुरस्य लोकस्य पूजनीय द्वीपस्त्राणं शरणं गतिः प्रतिष्ठा, इत्यादिरूपेण सर्वेषामपि प्रश्नव्याकरणाङ्गगतसंवराध्ययनपञ्चकोक्तानाम् (अध्य०१-५) गुणानां प्रतिपादनम् , प्रवेदनम्-पञ्चमहाव्रतानुपालनात् मोक्षो देवलोको वा भवति, इत्येवं तत्फलकथनमिति । एतत्सर्वमन्तरगृहे कत्तु साधूनां न कल्पते, व्याधितादिकारणे तु कल्पते, तत्तु सूत्रोक्तप्रमाणं न तु तदधिकमिति ॥ सू० २१ ॥
पूर्व निर्ग्रन्थनिर्ग्रन्थीनामन्तरगृहे स्थानधर्मकथादिकरणं निषिद्धम्, साम्प्रतं तत्रगतो मुनिः शय्यासंस्तारकं गृह्णीयात् तद् अपरावर्त्य न गच्छेदिति प्रतिपादयितुमाह-'नो कप्पई० पाड़िहारियं' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा पाडिहारियं सागारियसंतयं सेज्जासंथारयं आयाए अपडिहटु संपव्वइत्तए ॥ सू० २२ ॥
छाया--नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा प्रातिहारिकं सांगारिकसत्कं शय्यासंस्तारकम् आदाय अप्रतिहत्य संप्रवजितुम् ॥ सू० २२ ॥
चूर्णी--'नो कप्पई' इति । निर्ग्रन्थानां निम्रन्थीनां वा प्रातिहारिक-प्रतिहरणं प्रत्यपणं, तद् अर्हतीति प्रातिहारिकं प्रत्यर्पणप्रतिज्ञयाऽऽनीत वस्तु प्रातिहारिकं कथ्यते, तादृशं सागारिकसत्कं गृहस्थसम्बन्धिकं शय्यासंस्तारकं, शय्या-शरीरप्रमाणा, संस्तारकः-सार्द्धद्वयहस्तप्रमाणः पीठफलकादिकं वा तद् आदाय आनीय अपरिहत्य पुनरदत्त्वा संप्रव्रजितुं ग्रामान्तरं विहर्तुं न कल्पते, साधोरप्रतीतिजनकत्वात् ॥ सू० २२ ॥ ।
__पूर्व साधोः प्रातिहारिकं शय्यासंस्तारकमदत्त्वा गमनं निषिद्धम्, तच्च सागारिकसम्बन्धि भवेदिति तस्य प्रत्यर्पणविधिमाह-'नो कप्पइ० सागारियसंतयं' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा पाडिहारियं सागारियसंतयं सिज्जासंथारयं आयाए अविकरणं कटु संपन्वइत्तए ॥ सू० २३॥
छाया--नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा सागारिकसत्कं प्रातिहारिक शय्यासंस्तारकमादाय अविकरणं कृत्वा संप्रबजितुम् ॥ सू० २३ ॥
चूर्णी--'नोकप्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा प्रातिहारिकं सागारिकसत्कं, सागारिको गृहस्थ तत्सम्बन्धि गृहस्थसत्ताकमित्यर्थः, शय्यासंस्तारकं पीठफलकादिकं वा आदाय गृहस्थसकाशादानीय स्वकार्यसमाप्तौ तस्य अविकरणं-विकरण नाम यथारूपेण यत्स्थानाहा आनीतं तथारूपेण तत्रैव स्थाने स्थापनम् , तस्य न करणम्- अविकरणम्, तत् कृत्वा सस्तरणार्थमानीतं तृणादिकं यथानीतरूपेण पुनस्तत्रैव स्थापनमकृत्वा प्रव्रजितुं विहारं कत्तुं नो कल्पते ॥ सू० २३ ॥
तर्हि कथं कल्पते ? इत्याह 'कप्पई' इत्यादि ।
सूत्रम्-कप्पइ निग्गंथाण वा निग्गंथीण वा पाडिहारियं सागारियसंतयं सेज्जासंधारयं आयाए विकरणं कटु संपव्वइत्तए ॥ सू० २४ ॥