SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ०-३ सू० २१-२४ गृहस्थगृहान्तराख्यानादिनिषेधः ७३ तदा गाथानामाख्यानादिकं कर्तुं कल्पते, अन्यथा पृच्छकस्य साधोर्विषये शास्त्रज्ञानाऽबोधरूपा शङ्का भवेत्, विवादनिर्णयो वा न भवेत् । तदा तादृशेऽवसरेऽपि 'नन्नत्थ' इति नान्यत्र-एकज्ञातेन एकदृष्टान्तेन अन्यत्र-विना 'ने'-ति न कल्पते, 'नान्यत्र' इति सर्वत्र संबध्यते, एकदृष्टान्तादधिकं कथयितुं न कल्पते इति भावः, एवम्-एकव्याकरणेन-एकप्रश्नस्योत्तररूपेण विना एकव्याकरणं मुक्त्वाऽधिकं न कल्पते, यथा यदि कोऽपि पृच्छेत् किंलक्षणो धर्मः ? 'अहिंसालक्खणो धम्मो' अहिंसालक्षणो धर्म इति गाथांशेन निर्वचनं प्रवदेत् , नाधिकमिति । तथा एकगाथया वा नान्यत्र, गाथा आर्यावृत्तरूपा, एकश्लोकेन वा नान्यत्र, लोकः-अनुष्टुभादिरूपः । एकज्ञातात् एकव्याकरणात् , एकगाथातः, एकश्लोकाद् अधिकम् आरव्यातुं विभावयितुं कीर्तयितुं प्रवेदयितुं वा किमपि वा कर्तुं निर्ग्रन्थनिर्ग्रन्थीनामन्तरगृहे न कल्पते इति भावः । तदपि कथं कल्पते ? इति विधिमाह'सेवि य' इत्यादि, तदपि च ज्ञातादीनामाख्यानादिकं कल्पते स्थित्वा ऊर्बीभूतगात्रयष्टया स्थिति कृत्वा कल्पते किन्तु नो चैव खलु अस्थित्वा पूर्वोक्तव्यतिरेकेण आसनादौ समुपविश्येत्यर्थः न कल्पते इति भावः ॥ सू०२०॥ अथ पूर्वोक्तप्रकारेण भावनासहितपञ्चमहाव्रतानामपि आख्यानादेः प्रतिषेधमाह-'नो कप्पइ० इमाई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा अंतरगिहंसि इमाइं पंचमहव्वयाई सभावणाई आइक्खित्तए वा, विभावित्तए वा किट्टित्तए वा पवेइत्तए वा, नन्नत्थ एगनाएण वा जाव एगसिलोएण वा, सेवि य ठिच्चा नो चेव णं अद्विच्चा ॥ सू०२१ ॥ छाया--नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्तरगृहे इमानि पञ्चमहाव्रतानि सभावनानि आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा, नान्यत्र एकज्ञातेन वा यावत् एकश्लोकेन वा, तदपि च स्थित्वा, नो चैव खलु अस्थित्वा ॥ सु० २१ ॥ ___ चूणी--'नो कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनाम् अन्तरगृहे इमानि शास्त्रप्रसिद्धानि पञ्चमहाव्रतानि अहिंसा-सत्या-ऽस्तेय-ब्रह्मचर्या-उपरिग्रहरूपाणि सभावनानि भावनासहितानि, प्रत्येकमहाव्रतस्य पञ्च पञ्च भावनाः "इरियासमिए सया जए" इत्यादिगाथोक्तस्वरूपाः भवन्तीतिपञ्चविशतिभावनायुक्तानि आख्यातुम् , इत्यादिपदानां व्याख्या पूर्वसूत्रे गता, न कल्पते, नान्यत्र, इत्यादिपदानामपि व्याख्या पूर्वसूत्रे गता । तत्र आख्यानं यथा-इमानि पञ्च महाव्रतानि पट्कायरक्षणपराणि, षट्कायाश्च पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः, इत्यादि । विभावनं यथाएतानि पञ्च महाव्रतानि प्राणातिपातविरमणादीनि भावनापूर्वकं निरतिचार मनोवच.काययोगमाश्रित्य कृतकारितानुमोदनसहितानि समाचरणीयानि भवन्तीत्यादि । कीर्तनम्-एषु पञ्चसु महाव्रतेषु १०
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy