SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ चुणिभाष्यावरी उ०-३ सू० २४-२६ प्रतिहारिकशय्यादेर्ग्रहणाऽर्पणविधिः ७५ छाया- कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं सागारिकसत्कं शय्यासेस्तारकम् आदाय विकरणं कृत्वा संप्रवजितुम् ॥ सू० २४ ॥ चूर्णी--'कप्पई' इति । निर्ग्रन्थानां निम्रन्थीनां वा प्रातिहारिकं सागारिकसत्कं शय्यासंस्तारकमादाय आनीय विकरणं यथारूपेण आनीतं तथारूपेणैव तत्रैव स्थापनं कृत्वा प्रवजितुं विहारं कत्त कल्पते । अयं भावः-यानि तृणानि संस्तरणार्थ यस्मात् स्थानात् प्रस्तुततृणपुजात् राशीकृततृणपुञ्जाद्वा आनीतानि तानि कार्यसमाप्तौ गमनसमये प्रस्तृततृणपुजादानीतानि प्रस्तृततृणपुजे, राशीकृततृणंपुञ्जादानीतानि राशीकृततृणपुजे एव पूर्व यथास्थितानि तादृशान्येव प्रत्यर्पणसमयेऽपि कृत्वा स्थापनीयानि । एवं पीठफलकमपि यथाऽऽनीतं-यद्यानयनसमये तदूर्ध्वं स्थापितं भवेत्तत् प्रत्यर्पणसमयेऽप्यूर्ध्वमेव स्थापनीयम् , तिर्यक्स्थापितं भवेत्तदा तिर्यगेव स्थापनीयम्, भित्तिपार्शदानीतं भवेत्तदा प्रत्यर्पणसमयेऽपि भित्तिपार्श्वे एव स्थापनीयम् , यं पृष्टा चानीतं तमेव पुन संसूच्य स्थापनीयम्, येन गृहस्थस्याऽप्रतीतिकं न भवेत् । एव कृत्वैव साधोामान्तरं गन्तुं कल्पते, प्रातिहारिकवस्तुप्रत्यर्पणस्य एतादृशविधिकत्वात्। एवं करणे श्रमण आज्ञाभङ्गादिदोषभागू न भवति, न वा प्रायश्चित्तभाग् भवतीति भावः ॥ सू० २४ ॥ पूर्व सागारिकसत्कशय्यासस्तारकादेः प्रत्यर्पणविधिः प्रोक्तः, यदि तत् शय्यासंस्तारकादि चोरादिना चोरितं भवेत्तदा कि कत्र्तव्यम् ? इति तद्विधिं प्रदर्शयति-'इह खलु' इत्यादि। सूत्रम्-इह खलु निग्गंथाण वा निग्गंधीण वा पाडिहारिए सागारियसंत सेज्जासंथारए विप्पणसिज्जा से य अणुगवेसियवे सिया. से य अण. वेस्समाणे लभेज्जा तस्सेव पडिदायव्वे सिया, से य अणुगवेस्समाणे नो लभेज्जा एवं से कप्पड दोच्चपि उग्गहं अणुन्नवित्ता परिहारं परिहरित्तए ॥ सू० २५ ॥ लाया_इह खलु निर्ग्रन्थानां वा निग्रेन्थीनां वा प्रातिहारिकं वा सागारिकसत्कं वास्तारकं विप्रणश्येत् तच्च अनुगवेपयितव्यं स्यात्, तच्च अनुगवेष्यमाणं लभेत (तदा) तस्यैव प्रतिदातव्यं स्यात्, तच्च अनुगवेष्यमाण नो लमेत एव तस्य कल्पते द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहारं परिहतम् ॥ सू० २५ ॥ चूर्णी-इह खलु' इति । इह-जिनशासने खलु निर्ग्रन्थानां निर्ग्रन्थीनां वा यत प्रातिहारिक -प्रत्यर्पणवचसा समानीतं सागारिकसत्कं गृहस्थसत्ताकं शयासंस्तारकं पीठफलकादिकं वा किमपि वस्तु विप्रणश्येत् चोरादिना अपहियेत तदा तत् शय्यासंस्तारकम् अनुगवेपयितव्य स्यात् झटिति श्रमणेन तस्य गवेषणम् इतस्ततः पृच्छादिना शोधनं कर्त्तव्यं स्यात । यदि गवेष्यमाणं तत् लभेत तदा तस्यैव गृहस्थस्य यत्सकाशादानीतं भवेत्तस्यैव प्रतिदातव्यं स्यात् प्रत्यर्पणीयं भवेत् तस्मै प्रत्यर्पयितव्यमिति भावः । यदि तच्च शय्यासंस्तारकमले ध्यमाणमपि न लमेत न प्राप्नुयात् एवम् एतादृशेऽवसरे 'से' तस्येति सूत्रे जातावेकवचनं तेन
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy