________________
चूर्णिभाण्यावचूरी उ० ३ स० १८
यथारानिकविनयविधिः ६९ चूर्णी--कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा पूर्वसूत्रोक्तवस्त्रवदेव शय्यासंस्तारकान् , तत्र शय्या वसति', तस्या यः संस्तारकः शयनयोग्यावकाशलक्षणं स्थानं स शय्यासंस्तारकः, तान् यथारानिकतया पर्यायज्येष्ठतया प्रतिग्रहीतु समादातुं कल्पते । तस्य चोपाश्रयप्राप्तैः श्रमणैः पूर्वाह्नवेलायामेव ग्रहण कर्त्तव्यम् ततो यथारात्निकं विभक्तव्यम् , यद्वा शय्या-शरीरप्रमाणा, संस्तारकः-सार्द्धद्विहस्तः, तयोः समाहारे शय्यासंस्तारकम् , तानि, पीठफलकादीनि वा यथारात्निकतया पर्यायज्येष्ठत्वक्रमेण आचार्यस्थविरबालग्लानादीनां यथायोग्यक्रमेण च ग्रहीतुं कल्पते ॥ सू० १७ ॥
अत्राह गाथाद्वयं भाष्यकार:—'सयणटाणं' इत्यादि । भाष्यम्--सयणट्ठाणं तिविहं, निव्वायसवायमिस्सभेयाओ । समविसममिस्सभेया, पुणोवि तिविहं सयणठाणं ॥७॥ एमु य जं सुहठाणं, रायणियाणं गिलाणमाईणं । आमंतिय तं देज्जा, एसा जिणसासणे मेरा ॥ ८ ॥ छाया--शयनस्थानं त्रिविधं-निर्वात-सवात-मिश्रभेदतः । सम-विषम-मिश्रभेदात् , पुनरपि त्रिविधं शयनस्थानम् ॥७॥ एषु च यत् सुखस्थानं, रात्निकानां ग्लानादीनाम् । आमन्त्र्य तद् दद्यात् , एषा जिनशासने मर्यादा ॥ ८॥ __ अवचूरी--'सयणहाणं' इत्यादि । सूत्रे शय्यासस्तारकशब्देन वसतिगतशयनयोग्य स्थानं गृहीतम् । तच्च शयनस्थान-निर्वातं, सवातं, निर्वातसवातं चेति भेदात् त्रिविधं भवति, पुनरपि समं, विषमं, समविषममिति भेदात् त्रिविधम् । तत्र शयनस्थानमाचार्येण यद् यस्मै साधवे दीयते तत्तेन मायामदविप्रमुक्तेन ऋजुभावेन ग्रहीतव्यम् , किन्तु एषु पूर्वोक्तेषु षट्सु स्थानेषु यत् सुखस्थानं भवेत् तत्-आचार्य-स्थविर-लानादीनाम् आमन्त्र्य 'यदि भवतां न समीचीनं शयनस्थानं तर्हि ममेदं गृहाण' इत्यादिसंमानवाक्येन उपनिमन्त्र्य तत् स्वस्य समी. चीनं शयनस्थानं यत्तेषां रोचते तद् दद्यात् यतो जिनशासने एषा श्रमणानां मर्यादा वर्तते.
भगवता समुपदिष्टत्वात् । अथवा शय्या शरीरप्रमाणा, संस्तारकः सा द्विहस्तप्रमाणः । अत्रापि ___ कर्कशमृदुकठोरलक्ष्णादिभेदमधिकृत्य पूर्वोक्तो विधिर्वोच्यः॥ ७-८॥
पूर्व शय्यासस्तारकस्य यथारानिकतया ग्रहणविषयकं सूत्र प्रोक्तम् , साम्प्रतं शय्यासंस्तारकग्रहणानन्तर सन्ध्यासमये पूर्णायां पौरुष्यां गुरुप्रदत्तशय्यासंस्तारं प्रस्तीर्य तदपरि समारूढस्य एवं प्रातरुत्थितस्य च कृतिकर्म करणीयं भवेत् , तदपि यथारानिकतया कर्तव्यमिति तद्विधिप्रतिपादकं सूत्रमाह-'कप्पइ० किइकम्म' इत्यादि ॥
सूत्रम् – कप्पइ निग्गंधाण वा निग्गंधीण वा अहारायणियाए किइकम्म करित्तए ॥ सू० १८॥