________________
धृहत्कल्पसूत्र छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रथमसमवसरणोद्देशप्राप्तानि चेलानि प्रतिग्रहीतुम् । कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा द्वितीयसमवसरणोदेशप्राप्तानि चेलानि प्रतिग्रहीतुम् ।। सू०१५॥
चूर्णी—'नोकप्पइ' इति । निम्रन्थानां वा निर्ग्रन्थीनां वा प्रथमममवसरणोद्देशप्राप्तानि प्रथमे समवसरणे, एकस्मिन् वर्षे द्वे समवसरणे भवतः-एक वर्षाकालिकं द्वितीयम् ऋतुबद्धकालिकम् , तयोर्मध्ये प्रथमे वर्षाकालिकरूपे समवसरणे वर्षाकाले इत्यर्थः उद्देशः क्षेत्रकालविभागरूप, तं प्राप्तानि प्रथमसमवसरणोद्दे शप्राप्तानि वर्षाकालमध्यवर्ति क्षेत्रकालोपस्थितानि चेलानि-वस्त्राणि प्रतिग्रहीतुं नो कल्पते। तर्हि कीटक्क्षेत्रकालप्राप्तानि वस्त्राणि प्रतिग्रहीतव्यानि 2 तत्राह-'कप्पई' इत्यादि, निम्रन्थानां निम्रन्थीनां च द्वितीयसमवसरणोदेशप्राप्तानि-तत्र द्वितीयसमवसरणे ऋतुबद्धकाले हेमन्तग्रीष्मकालसम्बन्धिषु अण्टसु मासेषु उद्देश. क्षेत्रकालविभागरूपस्तं प्राप्तानि-हेमन्तग्रीष्मकालमध्यवर्तिक्षेत्रकालो. पस्थितानि चेलानि वस्त्राणि उपधिप्रायोग्यानि पात्राणि च प्रतिग्रहीतुं कल्पते । समाप्ते चातुर्मासे कार्तिकर्णिमात आरभ्य यावत् अषाढपूर्णिमा नायाति तावत्कालयर्यन्तं निर्ग्रन्थनिर्ग्रन्थीनां वस्त्राणि पात्राणि च एषणाप्राप्तानि क्षेत्रकालतो निर्दोषाणि कल्पते इति भावः ॥ सू०१५ ॥
पूर्वं द्वितीयसमवसरणे निर्ग्रन्थनिर्ग्रन्थीनां वस्त्रग्रहणमनुज्ञातम् , साम्प्रतं गृहीतानां तेषां वस्त्राणां यथारानिकं विभागविधि प्रतिपादयति-'कप्पइ० अहारायणियाए' इत्यादि ।
सूत्रम्--कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए चेलाई पडिग्गाहित्तए । सू० १६ ॥
छाया-कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा यथारानिकतया चेलानि प्रतिग्रहीतुम् ।।सु० १६ ॥
चर्णी-कप्पई' इति । निम्रन्थानां निर्ग्रन्थीनां वा चेलानि वस्त्राणि यथारानिकतया यथारत्नाधिकतया, रत्नं चारित्रपर्यायः तद् यथा यथा श्रमणश्रमणीनामधिककालिकः पर्यायो भवेत तथा तथा पर्यायज्येष्ठक्रमेण मनसि निधाय प्रतिग्रहीतुं स्वीकतु कल्पते, एवमेव विभागेन दातुं कल्पते, अन्यथा दाने अविनयाशातनाऽधिकरणादिदोषसंभवात् ॥ सू० १६ ॥
पूर्वसत्रे श्रमणश्रमणीनां यथारानिकक्रमेण वस्त्रग्रहणं प्रतिपादितम् , साम्प्रत शप्यासंस्तारकग्रहणविधिमाह-'कप्पइ' इत्यादि ।
मृत्रम्--कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए सेज्जासंपारए पडिग्गाहित्तए । सू० १७ ॥
डाया—कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथारालिकतया शय्यासंस्तारकान् प्रतिग्रहीतुम् ।। सू० १७ ॥