________________
चूणिभाष्यावचूरी उ० ३ सू० १४-१७
- वस्त्रादिग्रहणविधिः ६७ अतः संप्रति स गृहस्थ एव तर्हि सूत्रे 'निग्गंथस्स' इति कथं प्रोक्तम्, स निर्ग्रन्थपदेन कथमुपलक्षीकृतः ? अत्राह-सत्यम् , किन्तु अत्र जिनशासने निर्ग्रन्थो द्विविधः प्रोक्तः, द्रव्यनिर्ग्रन्थो भावनिम्रन्थश्चेते, अत्रायं भावनिम्रन्थो वर्तते ततः सूत्रकारेण निम्रन्थपदेन उपलक्षीकृतः । अत्र द्रव्यभावमाश्रित्य चतुर्भङ्गी भवति, तथाहि-एको द्रव्यतो निर्ग्रन्थो भवति नतु भावतः १, एको भावतो निर्ग्रन्थो भवति नतु द्रव्यत २, एको द्रव्यतो भावत इत्युभयतोऽपि निर्ग्रन्थः३, एको न द्रव्यतो न भावतो निर्ग्रन्थ ४ । तत्र यो द्रव्यतो वेषेण निर्ग्रन्थः किन्तु भावतः साध्वाचारतो न निम्रन्थ साधुक्रियायाः शैथिल्यात् इति प्रथमभङ्गस्य भावः १, एकः कश्चित् भावतो निर्ग्रन्थः सन्नपि मनोवचोवृत्त्या साधुवत्क्रियाकारकः किन्तु द्रव्यतः साधुवेषतो न निर्ग्रन्थ इति द्वितीयभङ्गभाव. २, एको द्रव्यतो मुनिवेषतोऽपि भावतो यथोक्तसाध्वाचारपालनतोऽपि च निर्ग्रन्थ इति तृतीयभगभावः ३, एको न द्रव्यतः साधुवेषतः, नापि च भावतः-विरतिपरिणामरहितो गृहस्थ इति चतुर्थभगभावः ४ । अत्र स द्वितीयभङ्गवर्तित्वाद्निग्रन्थशब्देन प्रोक्त इति समीचीनमेवेति ॥ सू०१३ ॥
अथ पूर्वोक्तमेव विषयमधिकृत्य निर्ग्रन्थीसूत्रमाह-'निग्गंथीए णं' इत्यादि ।
सूत्रम्--निग्गंथीए णं तप्पढमयाए संपव्वयमाणीए कप्पइ रयहरणगोच्छगपडिग्गहमायाए चउहिँ कसिणेहिं वत्थेहिं आयाए संपन्यइत्तए । सा य पुव्योवटिया सिया एवं से नो कप्पइ रयहरणगोच्छगपडिग्गहमायाए चउहिँ कसिणेहिं आयाए संपव्यइत्तए, कप्पइ से अहापडिग्गहियाई वत्थाई गहाय आयाए संपव्वइत्तए ॥ सू० १४ ॥
छाया-निर्ग्रन्थ्याः खलु तत्प्रथमतया संप्रव्रजन्त्याः कल्पते रजोहरणगोच्छकप्रतिग्रहमादाय चतुर्भिः कृत्स्नै वस्त्रै आत्मना संप्रव्रजितुम् । साच पूर्वोपस्थिता स्यात एवं तस्या नो कल्पते रजोहरणगोच्छकप्रतिग्रहमादाय चतुर्भिः कृत्स्नैः वस्त्रैः आत्मना संप्रवजितुम्, कल्पते तस्या यथाप्रतिगृहीतानि वस्त्राणि गृहीत्वा आत्मना संप्रवजितुम् ॥ सू०१४॥
चूर्णी-'निग्गंथीए णं' इति । अस्य निम्रन्थीसूत्रस्य सर्वाऽपि व्याख्या निर्ग्रन्थसूत्रस्येव परिभावनीया, विशेषोऽत्राऽयं बोध्य-तत्र निर्ग्रन्थसूत्रे पुंलिङ्गनिर्देशेन व्याख्या कृता अत्र तु स्त्रीलिङ्गनिर्देशेन व्याख्या कर्त्तव्या, अन्यसूत्रगतो विशेषोऽत्रायम्-निम्रन्थसूत्रे 'तिहिं कसिणेहिं वत्थेहि' त्रिभिः कृत्स्नैर्वस्त्रैः इत्युक्तम् , अत्र निर्ग्रन्थीसूत्रे च 'चउहिँ कसिणेहि वत्थेहिं' चतुर्भिः कृत्स्नैः वस्त्रैः इति प्रोक्तम् , निम्रन्थीना स्त्रीत्वेन भगवता षण्णवतिहस्तपरिमितवस्त्रप्रमाणस्यानुज्ञातत्वादिति ।। सू०१४ ॥
पूर्व निर्ग्रन्थस्य निर्ग्रन्थ्याश्च दीक्षाकालिकवस्त्रग्रहणविधिः प्रदर्शितः, साम्प्रतं वस्त्रप्रसङ्गात् निग्रन्थनिम्रन्थीनामन्यकालिकवस्त्रग्रहणविधिमाह-'नो कप्पइ० पढम०' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा पढमसमोसरणुद्देसपत्ताई चेलाई पडिगाहित्तए। कप्पइ निग्गंथाण वा निग्गंथीण वा दोच्चसमोसरणुदेशपत्ताई चेलाड पडिगाहित्तए । सू०१५ ॥