________________
बृहत्कल्पसूत्रे छाया--कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथारात्निकतया कृतिकर्म कर्तुम् ॥१८॥
चूर्णी-'कप्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थीनां यथारात्निकतया पर्यायज्येष्ठत्वक्रमेणे कृतिकर्म-शानभाषया शिष्यादिकृतो वन्दनाभ्युत्थानादिसत्कार , तत् कत्तुं कल्पते, नान्यथा ज्येष्ठत्वकनिष्ठत्त्वमर्यादामतिक्रम्येति भावः । कृतिकर्म द्विविधं वन्दनाभ्युत्थानमेदात् , तत्र वन्दनम् आचार्यादियथारात्निकानां प्रातः सायं तेषां दृष्टिपाते कार्यपृच्छादिसमये च यथाविधि वन्दनकं कर्तव्यम् , वन्दन कृत्वैव कार्यादिपृच्छा कर्त्तव्या, एवं सूत्रार्थतदुभयग्रहणेऽपि वन्दनं कर्त्तव्यमेवेति । अभ्युत्थानम्-गुरोः समीपागमने, चंक्रमणे, उच्चारादिभूमौ गमनकाले, आसनादुत्थानकाले, इत्याद्यवसरे शिष्येणाभ्युत्थानं कर्त्तव्यम्, अन्यथा गुरोराशातना, आज्ञाभङ्गादिदोषाश्च समापद्यन्ते, धर्मस्य विनयमूलत्वेन भगवता प्रतिपादितत्वात् , उक्तञ्च
"धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खल सोग्गईए । सा सोग्गई जत्थ अबाहया उ, तम्हा निसेल्वो विणओ तयट्टा" ॥ १॥
अयं भावः-धर्मस्य जिनोत्तस्य श्रुतचारित्रलक्षणस्य मूलं तीर्थकरगणधरादयो विनयं वदन्ति 'धर्मस्य मूलं विनय' इति, 'मूलं नास्ति कुतः शाखा' इति वचनाद् विनयमन्तरेण तप-संयमाराधनाऽपि कथं भवेत् । धर्मो हि सुगत्या मूलम् , सा सुगतिः कथ्यते यत्र अवाधता क्षुत्पिपासारोगशोकादिशारीरमानसानां वाधानामभावः सिद्धिरित्यर्थः स्यात् तस्मात् कारणात् मुनिना प्रथम विनयो निसेव्यः बिनयः समादरणीयः । स च गुरूणां वन्दनाभ्युत्थानसेवाशुश्रूषादिना जायते ।
अत्राय भावः-इह निर्ग्रन्थस्य कार्य तावदव्यावाधसुखलक्षणो मोक्षः, तस्य च कारणं सर्वज्ञभाषितः श्रुतचारित्रलक्षणो धर्म', स च गुरोरभ्युत्थानवन्दनादिरूपविनयलक्षणमुपायमन्तरेण साधयितुं न शक्यते, धर्मस्य विनयमूलत्वात् , अतो विनयेन धर्माराधनं, धर्माराधनेन मोक्ष इति पर म्परया विनयो मोक्षकारणमेवेति मत्वा तदर्थं विनय आसेवितव्य इति ॥ सू० १८॥
अत्र विनयमोक्षयोः कार्यकारणभावप्रदर्शनपूर्वकमाह भाष्यकार:—'कज्ज' इत्यादि । भाष्यम्-कज्जं च मोक्खो, विणो य हेऊ, निक्कारणा नत्थिह कज्जसिद्धी । तम्हा उवायं तह कारणं च, ओलंबिउं पावइ कज्जसिद्धिं ॥९॥