SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पसूत्रे पूर्व निर्ग्रन्थनिर्ग्रन्थीनां सामान्येन भिन्नाभिन्नवस्त्रधारणे विधिनिषेधश्च प्रतिपादितः, साम्प्रतं निर्ग्रन्थानां निम्रन्थीनां च स्वस्वकल्पानुसारेण पृथक् पृथग् वस्त्रधारणे निषेधं विधि च प्रतिपादयितुकामः प्रथमं निर्ग्रन्थसूत्रमाह-'नो कप्पइ० उग्गहणंतर्ग' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं उग्गहणंतगं वा उग्गहपट्टगं वा धारित्तए वा परिहरित्तएवा ।। सू० १०॥ छाया-नो कल्पते निम्रन्थानाम् अवग्रहानन्तकं वा अवग्रहपट्टकं वा धर्तु वा परिहतुवा ॥ सू० १०॥ चूर्णी-'नो कप्पइ' इति । निम्रन्थानाम् अवग्रहानन्तकम्-समयभाषया गुह्यस्थानाच्छादनवस्त्रं 'लंगोट, कौपीन'इतिप्रसिद्धम् , अवग्रहपट्टकं तस्याप्युपरि तदाच्छादनार्थं यद् धार्यते तत् धत्तुं स्वनिश्रायां स्थापयितुं परिहर्तुं परिभोक्तुं वा नो कल्पते, अनयोस्तापसादीनामुपकरणत्वेन जैनमुनीनामकल्प्यत्वादिति ॥ सू० १० ॥ पूर्वोक्तं वस्त्रद्वयं निम्रन्थीनां कल्प्यत्वेन तद्विधिसूत्रमाह-'कप्पइ० उग्गहणंतगं' इत्यादि । सूत्रम्--कप्पइ निग्गंथीणं उग्गहणंतग वा उग्गहपणं वा धारित्तए वा परिहरित्तए वा ।। सू०११॥ ___छाया-कल्पते निर्ग्रन्थीनाम् अवग्रहानन्तकं वा अवग्रहपट्टकं वा धर्तु वा परिहर्तु वा॥सू० ११॥ ___ चूर्णी-कप्पइ' इति । व्याख्या सुगमा नवरं पूर्वोक्तं वस्त्रद्वयं यद् निर्ग्रन्थानां प्रतिपिद्धं तद् निर्ग्रन्थीनां कल्पते, निम्रन्थीनां स्त्रीत्वेन रजोदर्शनसंजातरुधिरस्रावप्रतिरोधने आवश्यकत्वादिति ॥ सू० ११॥ पूर्वसूत्रे निर्ग्रन्थीनां वस्त्रद्वयधारणे विधिः प्रोक्तः, साम्प्रतं वस्त्रप्रसङ्गाद् निम्रन्थीवस्त्रग्रहणे विधिमाह-निग्गंथीए य' इत्यादि । मूत्रम्-निग्गंथीए य गाहावइकुलं पिंडवायपडियाए अणुपविठाए चेल? समुप्पज्जेज्जा, नो से कप्पइ अप्पणो नीसाए चेलं पडिग्गाहित्तए, कप्पइ से पवत्तिणीणीसाए चेलं पडिग्गाहित्तए । नो य से पवित्तिणी सामाणा सिया जे से तत्थ सामाणे आयरिए वा उवज्झाए वा पवत्तए वा थेरे वा गणी वा गणहरे वा गणाक्च्छे यए चा जं चऽन्नं पुरओ कटु विहरइ कप्पड़ से तन्नीसाए चेलं पडिग्गाहित्तए ॥ सू० १२॥ छाया-निर्माश्च गाथापतिकुलं पिण्डपातप्रतिक्षया अनुप्रविष्टायाश्चेलार्थ समुस्पद्येत, नो तस्याः कल्पते आत्मनो निश्रया चेलं प्रतिग्रहीतुम् , कल्पते तस्याः प्रवत्तिनीनिश्रया चेलं प्रतिग्रहीतुम् , नो चेद् अथ तत्र प्रवर्तिनी सामाना स्यात् यः स तत्र सामानः आचार्यो वा उपाध्यायो वाप्रवर्त्तको वा स्थविरो वागणी वा गणघरो वा गणावच्छे
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy